अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 3
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - परानुष्टुप्त्रिष्टुप्
सूक्तम् - मधु विद्या सूक्त
पश्य॑न्त्यस्याश्चरि॒तं पृ॑थि॒व्यां पृथ॒ङ्नरो॑ बहु॒धा मीमां॑समानाः। अ॒ग्नेर्वाता॑न्मधुक॒शा हि ज॒ज्ञे म॒रुता॑मु॒ग्रा न॒प्तिः ॥
स्वर सहित पद पाठपश्य॑न्ति । अ॒स्या॒: । च॒रि॒तम् । पृ॒थि॒व्याम् । पृथ॑क् । नर॑: । ब॒हु॒ऽधा । मीमां॑समाना: । अ॒ग्ने: । वाता॑त् । म॒धु॒ऽक॒शा। हि । ज॒ज्ञे । म॒रुता॑म् । उ॒ग्रा । न॒प्ति: ॥१.३॥
स्वर रहित मन्त्र
पश्यन्त्यस्याश्चरितं पृथिव्यां पृथङ्नरो बहुधा मीमांसमानाः। अग्नेर्वातान्मधुकशा हि जज्ञे मरुतामुग्रा नप्तिः ॥
स्वर रहित पद पाठपश्यन्ति । अस्या: । चरितम् । पृथिव्याम् । पृथक् । नर: । बहुऽधा । मीमांसमाना: । अग्ने: । वातात् । मधुऽकशा। हि । जज्ञे । मरुताम् । उग्रा । नप्ति: ॥१.३॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(पश्यन्ति) अवलोकयन्ति (अस्याः) मधुकशायाः (चरितम्) चेष्टितम् (पृथिव्याम्) भूलोके (पृथक्) भिन्नभिन्नप्रकारेण (नरः) नयतेर्डिच्च। उ० २।१००। णीञ् प्रापणे-ऋ। नेतारः। नराः (बहुधा) विविधम् (मीमांसमानाः) मान जिज्ञासायाम् स्वार्थे सन्-शानच्। विचारपूर्वकतत्त्वनिर्णयं कुर्वन्तः (मरुताम्) अ० १।२०।१। शूराणाम् (अस्याः) मधुकशायाः (उग्रा) प्रबला (नप्तिः) नञ्+पत्लृ अधःपतने-क्तिन्, टेर्लोपः। नपप्तिः। अपतनशक्तिः। स्थितिः ॥
इस भाष्य को एडिट करें