अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 20
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - भुरिग्विष्टारपङ्क्तिः
सूक्तम् - मधु विद्या सूक्त
स्त॑नयि॒त्नुस्ते॒ वाक्प्र॑जापते॒ वृषा॒ शुष्मं॑ क्षिपसि॒ भूम्यां॑ दि॒वि। तां प॒शव॒ उप॑ जीवन्ति॒ सर्वे॒ तेनो॒ सेष॒मूर्जं॑ पिपर्ति ॥
स्वर सहित पद पाठस्त॒नि॒यि॒त्नु: । ते॒ । वाक् । प्र॒जा॒ऽप॒ते॒ । वृषा॑ । शुष्म॑म् । क्षि॒प॒सि॒ । भूम्या॑म् । दि॒वि । ताम् । प॒शव॑: । उप॑ । जी॒व॒न्ति॒ । सर्वे॑ । तेनो॒ इति॑ । सा । इष॑म् । ऊर्ज॑म् । पि॒प॒र्ति॒ ॥१.२०॥
स्वर रहित मन्त्र
स्तनयित्नुस्ते वाक्प्रजापते वृषा शुष्मं क्षिपसि भूम्यां दिवि। तां पशव उप जीवन्ति सर्वे तेनो सेषमूर्जं पिपर्ति ॥
स्वर रहित पद पाठस्तनियित्नु: । ते । वाक् । प्रजाऽपते । वृषा । शुष्मम् । क्षिपसि । भूम्याम् । दिवि । ताम् । पशव: । उप । जीवन्ति । सर्वे । तेनो इति । सा । इषम् । ऊर्जम् । पिपर्ति ॥१.२०॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 20
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २०−(दिवि) आकाशे (ताम्) वाचम् (पशवः) अ० २।२६।१। द्रष्टारः प्राणिनः (उप) उपेत्य (जीवन्ति) (सर्वे) (तेनो) तेनैव कारणेन (सा) वाक् (इषम्) अ० ३।१०।७। अन्नम् (ऊर्जम्) बलम् (पिपर्ति) पूरयति। अन्यत् पूर्ववत्-म० १० ॥
इस भाष्य को एडिट करें