अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 21
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - एकावसाना द्विपदानुष्टुप्
सूक्तम् - मधु विद्या सूक्त
पृ॑थि॒वी द॒ण्डो॒न्तरि॑क्षं॒ गर्भो॒ द्यौः कशा॑ वि॒द्युत्प्र॑क॒शो हि॑र॒ण्ययो॑ बि॒न्दुः ॥
स्वर सहित पद पाठपृ॒थि॒वी । द॒ण्ड: । अ॒न्तरि॑क्षम् । गर्भ॑: । द्यौ: । कशा॑ । वि॒ऽद्युत् । प्र॒ऽक॒श: । हि॒र॒ण्यय॑: । बि॒न्दु: ॥१.२१॥।
स्वर रहित मन्त्र
पृथिवी दण्डोन्तरिक्षं गर्भो द्यौः कशा विद्युत्प्रकशो हिरण्ययो बिन्दुः ॥
स्वर रहित पद पाठपृथिवी । दण्ड: । अन्तरिक्षम् । गर्भ: । द्यौ: । कशा । विऽद्युत् । प्रऽकश: । हिरण्यय: । बिन्दु: ॥१.२१॥।
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 21
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २१−(दण्डः) ञमन्ताड् डः। उ० १।११४। दमु उपशमे-ड। दमनस्थानम्। न्यायालयो यथा (अन्तरिक्षम्) मध्यलोकः (गर्भः) आधारः। मध्यदेशः (द्यौः) आकाशः (कशा) म० ५। वाणी (विद्युत्) अशनिः (प्रकशः) कश गतिशासनयोः शब्दे च-पचाद्यच्। प्रकृष्टा मतिः (हिरण्ययः) अ० ४।२।८। तेजोमयः सूर्यः (बिन्दुः) शॄस्वृस्निहि०। उ० १।१०। विदि अवयवे-उ प्रत्ययः। अल्पांशः ॥
इस भाष्य को एडिट करें