Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 22
    सूक्त - अथर्वा देवता - मधु, अश्विनौ छन्दः - त्रिपदा ब्राह्मी पुरउष्णिक् सूक्तम् - मधु विद्या सूक्त

    यो वै कशा॑याः स॒प्त मधू॑नि॒ वेद॒ मधु॑मान्भवति। ब्रा॑ह्म॒णश्च॒ राजा॑ च धे॒नुश्चा॑न॒ड्वांश्च॑ व्री॒हिश्च॒ यव॑श्च॒ मधु॑ सप्त॒मम् ॥

    स्वर सहित पद पाठ

    य: । वै । कशा॑या: । स॒प्त । मधू॑नि । वेद॑ । मधु॑ऽमान् । भ॒व॒ति॒ । ब्रा॒ह्म॒ण: । च॒ । राजा॑ । च॒ । धे॒नु: । च॒ । अ॒न॒ड्वान् । च॒ । व्री॒हि: । च॒ । यव॑: । च॒ । मधु॑ । स॒प्त॒मम् ॥१.२२।


    स्वर रहित मन्त्र

    यो वै कशायाः सप्त मधूनि वेद मधुमान्भवति। ब्राह्मणश्च राजा च धेनुश्चानड्वांश्च व्रीहिश्च यवश्च मधु सप्तमम् ॥

    स्वर रहित पद पाठ

    य: । वै । कशाया: । सप्त । मधूनि । वेद । मधुऽमान् । भवति । ब्राह्मण: । च । राजा । च । धेनु: । च । अनड्वान् । च । व्रीहि: । च । यव: । च । मधु । सप्तमम् ॥१.२२।

    अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 22

    टिप्पणीः - २२−(यः) (वै) अवधारणे (कशायाः) म० ५। वेदवाचः (सप्त) (मधूनि) ज्ञानानि (वेद) वेत्ति (मधुमान्) ज्ञानवान् (भवति) (ब्राह्मणः) अ० २।६।३। वेदवेत्ता (राजा) (च) (धेनुः) अ० ३।१०।१। तर्पयित्री गौः (अनड्वान्) अ० ४।११।१। अनसोऽन्नस्य वाहकः प्रापकः (व्रीहिः) अ० ६।—१४०।२। अन्नविशेषः (यवः) (मधु) ज्ञानम् (सप्तमम्) ॥

    इस भाष्य को एडिट करें
    Top