अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 32
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
तस्मा॒द्वै वि॒द्वान्पुरु॑षमि॒दं ब्रह्मेति॑ मन्यते। सर्वा॒ ह्यस्मिन्दे॒वता॒ गावो॑ गो॒ष्ठ इ॒वास॑ते ॥
स्वर सहित पद पाठतस्मा॑त् । वै । वि॒द्वान् । पुरु॑षम् । इ॒दम् । ब्रह्म॑ । इति॑ । म॒न्य॒ते॒ । सर्वा॑: । हि । अ॒स्मि॒न् । दे॒वता॑: । गाव॑: । गो॒स्थेऽइ॑व । आस॑ते ॥१०.३२॥
स्वर रहित मन्त्र
तस्माद्वै विद्वान्पुरुषमिदं ब्रह्मेति मन्यते। सर्वा ह्यस्मिन्देवता गावो गोष्ठ इवासते ॥
स्वर रहित पद पाठतस्मात् । वै । विद्वान् । पुरुषम् । इदम् । ब्रह्म । इति । मन्यते । सर्वा: । हि । अस्मिन् । देवता: । गाव: । गोस्थेऽइव । आसते ॥१०.३२॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 32
विषय - देवमन्दिर
पदार्थ -
१. (तस्मात्) = उपर्युक्त कारण से-क्योंकि यहाँ भिन्न-भिन्न इन्द्रियों में उस-उस देवता का निवास है (वै) = निश्चयपूर्वक (विद्वान्) = ज्ञानी पुरुष (इदं पुरुषम्) = इस पुरुष-शरीर को (ब्रह्म इति) = 'अत्यन्त महत्त्वपूर्ण [बृहि वृद्धौ] है' इस रूप में (मन्यते) = मानता है। (अस्मिन्) = इस शरीर में (हि) = निश्चय से (सर्वाः देवता:) = सब देव इसप्रकार (आसते) = आसीन होते हैं, (इव) = जैसेकि (गाव: गोष्ठे) = गौएँ गोशाला में।
भावार्थ -
सब देवों का निवासस्थान यह शरीर वस्तुतः अत्यन्त महत्त्वपूर्ण देवमन्दिर है। इसे पवित्र बनाए रखना हमारा मौलिक कर्तव्य है।
इस भाष्य को एडिट करें