अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 28
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - साम्नी बृहती
सूक्तम् - ओदन सूक्त
परा॑ञ्चं चैनं॒ प्राशीः॑ प्रा॒णास्त्वा॑ हास्य॒न्तीत्ये॑नमाह ॥
स्वर सहित पद पाठपरा॑ञ्चम् । च॒ । ए॒न॒म् । प्र॒ऽआशी॑: । प्रा॒णा: । त्वा॒ । हा॒स्य॒न्ति॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥३.२८॥
स्वर रहित मन्त्र
पराञ्चं चैनं प्राशीः प्राणास्त्वा हास्यन्तीत्येनमाह ॥
स्वर रहित पद पाठपराञ्चम् । च । एनम् । प्रऽआशी: । प्राणा: । त्वा । हास्यन्ति । इति । एनम् । आह ॥३.२८॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 28
विषय - सृष्टि के पदार्थों के ज्ञान का उपदेश।
पदार्थ -
“(च) यदि (पराञ्चम्) दूरवर्ती (एनम्) इस [ओदन] को (प्राशीः) तूने खाया है, (प्राणाः) श्वास के बल (त्वा) तुझे (हास्यन्ति) त्यागेंगे” (इति) ऐसा वह [आचार्य] (एनम्) इस [जिज्ञासु] से (आह) कहता है ॥२८॥
भावार्थ - मन्त्र २९ के साथ ॥२८॥
टिप्पणी -
२८−(पराञ्चम्) म० २६। दूरे गच्छन्तम् (च) चेत् (एनम्) ओदनम् (प्राशीः) म० २६। प्रकर्षेण भक्षितवानसि (प्राणाः) श्वासबलानि (त्वा) (हास्यन्ति) ओहाक् त्यागे। त्यक्ष्यन्ति (इति) एवम् (एनम्) जिज्ञासुम् (आह) ब्रूञ् व्यक्तायां वाचि लट्। ब्रवीति ॥