अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 32
तत॑श्चैनम॒न्येन॑ शी॒र्ष्णा प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। ज्ये॑ष्ठ॒तस्ते॑ प्र॒जा म॑रिष्य॒तीत्ये॑नमाह। तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। बृ॑ह॒स्पति॑ना शी॒र्ष्णा। तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठतत॑: । च॒ । ए॒न॒म् । अ॒न्येन॑ । शी॒र्ष्णा । प्र॒ऽआशी॑: । येन॑ । च॒ । ए॒तम् । पूर्वे॑ । ऋष॑य: । प्र॒ऽआश्न॑न् ॥ ज्ये॒ष्ठ॒त: । ते॒ । प्र॒ऽजा । म॒रि॒ष्य॒ति॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥ तम् । वै । अ॒हम् । न । अ॒र्वाञ्च॑म् । न । परा॑ञ्चम् । न । प्र॒त्यञ्च॑म् ॥ बृह॒स्पती॑ना । शी॒र्ष्णा ॥ तेन॑ । ए॒न॒म् । प्र । आ॒शि॒ष॒म् । तेन॑ । ए॒न॒म् । अ॒जी॒ग॒म॒म् ॥ ए॒ष: । वै । ओ॒द॒न: । सर्व॑ऽअङ्ग: । सर्व॑ऽतनू: । सर्व॑ऽअङ्ग: । ए॒व । सर्व॑ऽपरु: । सर्व॑ऽतनू: । सम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥४.१॥
स्वर रहित मन्त्र
ततश्चैनमन्येन शीर्ष्णा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन्। ज्येष्ठतस्ते प्रजा मरिष्यतीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। बृहस्पतिना शीर्ष्णा। तेनैनं प्राशिषं तेनैनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥
स्वर रहित पद पाठतत: । च । एनम् । अन्येन । शीर्ष्णा । प्रऽआशी: । येन । च । एतम् । पूर्वे । ऋषय: । प्रऽआश्नन् ॥ ज्येष्ठत: । ते । प्रऽजा । मरिष्यति । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ बृहस्पतीना । शीर्ष्णा ॥ तेन । एनम् । प्र । आशिषम् । तेन । एनम् । अजीगमम् ॥ एष: । वै । ओदन: । सर्वऽअङ्ग: । सर्वऽतनू: । सर्वऽअङ्ग: । एव । सर्वऽपरु: । सर्वऽतनू: । सम् । भवति । य: । एवम् । वेद ॥४.१॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 32
विषय - ब्रह्मविद्या का उपदेश।
पदार्थ -
[हे जिज्ञासु !] (च) यदि (एनम्) इस [ओदन, अन्नरूप परमेश्वर] को (ततः) उससे (अन्येन) भिन्न (शीर्ष्णा) शिर से (प्राशीः) तूने खाया [अनुभव किया] है, (येन) जिस [शिर] से (च) ही (एतम्) इस [परमेश्वर] को (पूर्वे) पहिले (ऋषयः) ऋषियों [वेदार्थ जाननेवालों] ने (प्राश्नन्) खाया [अनुभव किया] था। (ज्येष्ठतः) अति बड़े से लेकर (ते) तेरे (प्रजा) [राज्य की] प्रजा (मरिष्यति) मरेगी, (इति) ऐसा (एनम्) इस [जिज्ञासु] से (आह) वह [आचार्य] कहे ॥[जिज्ञासु का उत्तर]−(अहम्) मैंने (वै) निश्चय करके (न) अब (तम्) उस (अर्वाञ्चम्) पीछे वर्तमान रहनेवाले, (न) अब (पराञ्चम्) दूर वर्तमान और (न) अब (प्रत्यञ्चम्) प्रत्यक्ष वर्तमान [परमेश्वर] को [खाया है]। (तेन) उसी [ऋषियों के समान] (बृहस्पतिना) बड़े ज्ञानों के रक्षक (शीर्ष्णा) शिर से (एनम्) इस [परमेश्वर] को (प्र आशिषम्) मैंने खाया [अनुभव किया] है, (तेन) उसी से (एनम्) इसको (अजीगमम्) मैंने पाया है ॥(एषः) यह (वै) ही (ओदनः) ओदन [सुखवर्षक अन्नसमान परमेश्वर] (सर्वाङ्गः) सब उपायोंवाला, (सर्वपरुः) सब पालनोंवाला और (सर्वतनूः) सब उपकारोंवाला है। वह [मनुष्य] (एव) ही (सर्वाङ्गः) सब उपायोंवाला, (सर्वपरुः) सब पालनोंवाला और (सर्वतनूः) सब उपकारोंवाला (सम् भवति) हो जाता है, (यः) जो [मनुष्य] (एवम्) ऐसा (वेद) जानता है ॥३२॥
भावार्थ - आचार्य उपदेश करे−हे शिष्य तू वेदानुगामी ऋषियों के समान परमेश्वर में प्रीति कर, यदि उससे विरुद्ध चलेगा तो शरीर और आत्मा से गिरकर संसार का अपकार करेगा। तब शिष्य परमात्मा में पूर्ण भक्ति से प्रतिज्ञा करके आत्मिक, शारीरिक और सामाजिक बल बढ़ावे ॥३२॥
टिप्पणी -
३२−(ततः) तस्माद् मस्तकात् (च) चेत् (एनम्) ओदनम् (अन्येन) भिन्नेन (शीर्ष्णा) शिरसा। शिरोविचारेण (प्राशीः) म० २६। भक्षितवानसि। अनुभूतवानसि (येन) शिरसा (च) एव (एतम्) ओदनम् (पूर्वे) पूर्वजाः (ऋषयः) वेदार्थज्ञातारः (प्राश्नन्) भक्षितवन्तः। अनुभूतवन्तः (ज्येष्ठतः) ज्येष्ठमारभ्य (ते) तव (प्रजा) राज्यजनता (मरिष्यति) मरणं प्राप्स्यति (इति) अनेन प्रकारेण (एनम्) जिज्ञासुम् (आह) ब्रवीति योगिजनः (तम्) ओदनम् (वै) निश्चयेन (अहम्) जिज्ञासुः (न) सम्प्रति-निरु० ७।३१। (अर्वाञ्चम्) अवरे पश्चात् काले प्रलये वर्तमानम् (न) सम्प्रति (पराञ्चम्) दूरे गतम् (न) सम्प्रति (प्रत्यञ्चम्) प्रत्यक्षं प्राप्तम् (बृहस्पतिना) बृहतां ज्ञानानां रक्षकेण (शीर्ष्णा) शिरसा (तेन) (एनम्) ओदनम् (प्राशिषम्) भक्षितवानस्मि। अनुभूतवानस्मि (तेन) (एनम्) (अजीगमम्) गमेः स्वार्थण्यन्ताल्लुङि चङि रूपम्। अगमम्। प्राप्तवानस्मि (एषः) (वै) (ओदनः) सुखवर्षकोऽन्नरूपः परमेश्वरः (सर्वाङ्गः) अङ्ग पदे लक्षणे च-अच्। सर्वोपाययुक्तः (सर्वपरुः) अर्तिपॄवपियजितनि०। उ० २।११७। पॄ पालनपूरणयोः उसि। सर्वपालनयुक्तः (सर्वतनूः) कृषिचमितनिधनि०। उ० १।८०। तनु विस्तारे श्रद्धोपकरणयोश्च-ऊ। सर्वोपकारयुक्तः (सर्वाङ्गः) सर्वोपायः (एव) (सर्वपरुः) सर्वपालनः (सर्वतनूः) सर्वोपकारः (सम्) सम्यक् (भवति) (यः) पुरुषः (एवम्) (वेद) वेत्ति परमात्मानम् ॥