अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 58
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - त्रिष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
यो अ॒द्य दे॑व सूर्य॒ त्वां च॒ मां चा॑न्त॒राय॑ति। दुः॒ष्वप्न्यं॒ तस्मि॒ञ्छम॑लं दुरि॒तानि॑ च मृज्महे ॥
स्वर सहित पद पाठय: । अ॒द्य । दे॒व॒ । सू॒र्य॒ त्वाम् । च॒ । माम् । च॒ । अ॒न्त॒रा । अय॒ति । दु॒:ऽस्वप्न्य॑म् । तस्मि॑न् । शम॑लम् । दु॒:ऽइ॒तानि॑। च॒ । मृ॒ज्म॒हे॒ ॥१.५८॥
स्वर रहित मन्त्र
यो अद्य देव सूर्य त्वां च मां चान्तरायति। दुःष्वप्न्यं तस्मिञ्छमलं दुरितानि च मृज्महे ॥
स्वर रहित पद पाठय: । अद्य । देव । सूर्य त्वाम् । च । माम् । च । अन्तरा । अयति । दु:ऽस्वप्न्यम् । तस्मिन् । शमलम् । दु:ऽइतानि। च । मृज्महे ॥१.५८॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 58
Subject - Rohita, the Sun
Meaning -
O divine Sun, whoever now stands as obstruction between you and me, we cleanse him of all evil dreams, dirt and evil thought and will in him, or, otherwise, we wash ourselves of him as such.