अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 50
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
स॒त्ये अ॒न्यः स॒माहि॑तो॒ऽप्स्वन्यः समि॑ध्यते। ब्रह्मे॑द्धाव॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑ ॥
स्वर सहित पद पाठस॒त्ये । अ॒न्य: । स॒म्ऽआहि॑त: । अ॒प्ऽसु । अ॒न्य: । सम् । इ॒ध्य॒ते॒ । ब्रह्म॑ऽइध्दौ । अ॒ग्नी इति॑ । ई॒जा॒ते॒ इति॑ । रोहि॑तस्य । स्व॒:ऽविद॑: ॥१.५०॥
स्वर रहित मन्त्र
सत्ये अन्यः समाहितोऽप्स्वन्यः समिध्यते। ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥
स्वर रहित पद पाठसत्ये । अन्य: । सम्ऽआहित: । अप्ऽसु । अन्य: । सम् । इध्यते । ब्रह्मऽइध्दौ । अग्नी इति । ईजाते इति । रोहितस्य । स्व:ऽविद: ॥१.५०॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 50
Subject - Rohita, the Sun
Meaning -
One fire of the two is placed in truth and commitment with knowledge and faith, the other is placed in the waters, dynamics of will and action, and these two fires lighted, raised and continued by Brahma with Brahma, carry on the creative yajna of Rohita, Lord and Spirit of existential bliss.