अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 1
ददा॒मीत्ये॒व ब्रू॑या॒दनु॑ चैना॒मभु॑त्सत। व॒शां ब्र॒ह्मभ्यो॒ याच॑द्भ्य॒स्तत्प्र॒जाव॒दप॑त्यवत् ॥
स्वर सहित पद पाठददा॑मि । इति॑ । ए॒व । ब्रू॒या॒त्। अनु॑ । च॒ । ए॒ना॒म् । अभु॑त्सत । व॒शाम् । ब्र॒ह्मऽभ्य॑: । याच॑त्ऽभ्य: । तत् । प्र॒जाऽव॑त् । अप॑त्यऽवत् ॥४.१॥
स्वर रहित मन्त्र
ददामीत्येव ब्रूयादनु चैनामभुत्सत। वशां ब्रह्मभ्यो याचद्भ्यस्तत्प्रजावदपत्यवत् ॥
स्वर रहित पद पाठददामि । इति । एव । ब्रूयात्। अनु । च । एनाम् । अभुत्सत । वशाम् । ब्रह्मऽभ्य: । याचत्ऽभ्य: । तत् । प्रजाऽवत् । अपत्यऽवत् ॥४.१॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(ददामि) प्रयच्छामि (इति) वाक्यसमाप्तौ (एव) एवम् (ब्रूयात्) उपदिशेत्−आचार्यः (अनु) अनुलक्ष्य (च) अवधारणे (एनाम्) वेदवाणीम् (अभुत्सत) बुध अवगमने−लुङ्। ज्ञातवन्तः−पूर्वे विद्वांसः (वशाम्) अ० १०।१०।२। वशिरण्योरुपसंख्यानम्। वा० पा० ३।३।५८। वश कान्तौ प्रभुत्वे च−अप्, टाप्। वशा स्वाधीना−महीधरभाष्ये−यजु० २।१६। वशा कमनीयानि−दयानन्दभाष्ये, ऋक्० २।२४।१३। कमनीयां प्रभ्वीं वा वेदवाणीम् (ब्रह्मभ्यः) ब्राह्मणेभ्यः। ब्रह्मजिज्ञासुभ्यः (याचद्भ्यः) प्रार्थयमानेभ्यः (तत्) विद्यादानम् (प्रजावत्) प्रशस्यप्रजायुक्तम् (अपत्यवत्) श्रेष्ठसन्तानोपेतं कर्म ॥
इस भाष्य को एडिट करें