अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 42
सूक्त - कश्यपः
देवता - वशा
छन्दः - बृहतीगर्भानुष्टुप्
सूक्तम् - वशा गौ सूक्त
तां दे॒वा अ॑मीमांसन्त व॒शेया३मव॒शेति॑। ताम॑ब्रवीन्नार॒द ए॒षा व॒शानां॑ व॒शत॒मेति॑ ॥
स्वर सहित पद पाठताम् । दे॒वा: । अ॒मी॒मां॒स॒न्त॒ । व॒शा । इ॒या३म् । अव॑शा३ । इति॑ । ताम् । अ॒ब्र॒वी॒त् । ना॒र॒द: । ए॒षा । व॒शाना॑म् । व॒शऽत॑मा । इति॑ ॥४.४२॥
स्वर रहित मन्त्र
तां देवा अमीमांसन्त वशेया३मवशेति। तामब्रवीन्नारद एषा वशानां वशतमेति ॥
स्वर रहित पद पाठताम् । देवा: । अमीमांसन्त । वशा । इया३म् । अवशा३ । इति । ताम् । अब्रवीत् । नारद: । एषा । वशानाम् । वशऽतमा । इति ॥४.४२॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 42
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४२−(ताम्) वेदवाणीम् (देवाः) विजिगीषवः (अमीमांसन्त) मान जिज्ञासायाम्−स्वार्थे सन्−लङ्। विचारितवन्तः (वशा) कमनीया (इयम्) वेदवाणी (अवशा) अकमनीया (इति) (ताम्) वेदवाणीम् (अब्रवीत्) कथितवान् (नारदः) म० १६। नीतिप्रदः (एषा) वेदवाणी (वशानाम्) कमनीयानां शक्तीनां मध्ये (वशतमा) अतिशयेन कमनीया (इति) ॥
इस भाष्य को एडिट करें