अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 43
कति॒ नु व॒शा ना॑रद॒ यास्त्वं वे॑त्थ मनुष्य॒जाः। तास्त्वा॑ पृच्छामि वि॒द्वांसं॒ कस्या॒ नाश्नी॑या॒दब्रा॑ह्मणः ॥
स्वर सहित पद पाठकति॑ । नु । व॒शा: । ना॒र॒द॒ । या: । त्वम् । वेत्थ॑ । म॒नु॒ष्य॒ऽजा: । ता: । त्वा॒ । पृ॒च्छा॒मि॒ । वि॒द्वांस॑म् । कस्या॑: । न । अ॒श्नी॒या॒त् । अब्रा॑ह्मण: ॥४.४३॥
स्वर रहित मन्त्र
कति नु वशा नारद यास्त्वं वेत्थ मनुष्यजाः। तास्त्वा पृच्छामि विद्वांसं कस्या नाश्नीयादब्राह्मणः ॥
स्वर रहित पद पाठकति । नु । वशा: । नारद । या: । त्वम् । वेत्थ । मनुष्यऽजा: । ता: । त्वा । पृच्छामि । विद्वांसम् । कस्या: । न । अश्नीयात् । अब्राह्मण: ॥४.४३॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 43
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४३−(कति) किंपरिमाणाः (नु) प्रश्ने (वशाः) कमनीयाः शक्तयः (नारद) म० १६। हे नीतिप्रद (याः) (त्वम्) (वेत्थ) जानासि (मनुष्यजाः) मनुष्य+जनी प्रादुर्भावे−विट्। मनुष्येषु मननशीलेषूत्पन्नः (ताः) (त्वा) (पृच्छामि) अहं जिज्ञासे (विद्वांसम्) जानन्तम् (कस्याः) (न) निषेधे (अश्नीयात्) भुञ्जीत। अनुभवेत् (अब्राह्मणः) अब्रह्मचारी ॥
इस भाष्य को एडिट करें