अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 3
कू॒टया॑स्य॒ सं शी॑र्यन्ते श्लो॒णया॑ का॒टम॑र्दति। ब॒ण्डया॑ दह्यन्ते गृ॒हाः का॒णया॑ दीयते॒ स्वम् ॥
स्वर सहित पद पाठकू॒टया॑ । अ॒स्य॒ । सम् । शी॒र्य॒न्ते॒ । श्लो॒णया॑ । का॒टम् । अ॒र्द॒ति॒ । ब॒ण्डया॑ । द॒ह्य॒न्ते॒ । गृ॒हा: । का॒णया॑ । दी॒य॒ते॒ । स्वम् ॥४.३॥
स्वर रहित मन्त्र
कूटयास्य सं शीर्यन्ते श्लोणया काटमर्दति। बण्डया दह्यन्ते गृहाः काणया दीयते स्वम् ॥
स्वर रहित पद पाठकूटया । अस्य । सम् । शीर्यन्ते । श्लोणया । काटम् । अर्दति । बण्डया । दह्यन्ते । गृहा: । काणया । दीयते । स्वम् ॥४.३॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(कूटया) कूट दानाभावे−घञ्। टाप्। अदानेन (अस्य) पुरुषस्य (सं शीर्यन्ते) सर्वथा नाश्यन्ते (श्लोणया) श्लोणृ संघाते−घञ्। राशीकरणेन (काटम्) कटी गतौ−घञ्। प्राकट्यम्। प्रसिद्धिम् (अर्दति) नाशयति (बण्डया) बडि विभाजने वेष्टने च−घञ्। वेष्टनेन (दह्यन्ते) भस्मीक्रियन्ते (गृहाः) निवासाः (काणया) कण निमीलने−घञ्। निमीलनेन (दीयते) दीङ् क्षये। नश्यति (स्वम्) सर्वस्वम् ॥
इस भाष्य को एडिट करें