अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 17
य ए॑ना॒मव॑शा॒माह॑ दे॒वानां॒ निहि॑तं नि॒धिम्। उ॒भौ तस्मै॑ भवाश॒र्वौ प॑रि॒क्रम्येषु॑मस्यतः ॥
स्वर सहित पद पाठय: । ए॒ना॒म् । अव॑शाम् । आह॑ । दे॒वाना॑म् । निऽहि॑तम् । नि॒ऽधिम् । उ॒भौ । तस्मै॑ । भ॒वा॒श॒र्वौ । प॒रि॒ऽक्रम्य॑ । इषु॑म् । अ॒स्य॒त॒: ॥४.१७॥
स्वर रहित मन्त्र
य एनामवशामाह देवानां निहितं निधिम्। उभौ तस्मै भवाशर्वौ परिक्रम्येषुमस्यतः ॥
स्वर रहित पद पाठय: । एनाम् । अवशाम् । आह । देवानाम् । निऽहितम् । निऽधिम् । उभौ । तस्मै । भवाशर्वौ । परिऽक्रम्य । इषुम् । अस्यत: ॥४.१७॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 17
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १७−(यः) मूर्खः (एनाम्) वेदवाणीम् (अवशाम्) म० १। अकमनीयाम्। असमर्थाम् (आह) कथयति (देवानाम्) विजिगीषूणाम् (निहितम्) नियमेन स्थापितम् (निधिम्) धनकोशम् (उभौ) (तस्मै) मूर्खाय (भवाशर्वौ) अ० ८।२।७। सुखस्य भावयिता कर्ता भवः प्राणः, दुःखस्य शारिता नाशकः शर्वोऽपानवायुश्च तौ (परिक्रम्य) परितो गत्वा (इषुम्) बाणम्। पीडाम् (अस्यतः) क्षिपतः ॥
इस भाष्य को एडिट करें