अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 28
यो अ॑स्या॒ ऋच॑ उप॒श्रुत्याथ॒ गोष्वची॑चरत्। आयु॑श्च॒ तस्य॒ भूतिं॑ च दे॒वा वृ॑श्चन्ति हीडि॒ताः ॥
स्वर सहित पद पाठय: । अ॒स्या॒: । ऋच॑: । उ॒प॒ऽश्रुत्य॑ । अथ॑ । गोषु॑ । अची॑चरत् । आयु॑: । च॒ । तस्य॑ । भूति॑म् । च॒ । दे॒वा: । वृ॒श्च॒न्ति॒ । ही॒डि॒ता: ॥४.२८॥
स्वर रहित मन्त्र
यो अस्या ऋच उपश्रुत्याथ गोष्वचीचरत्। आयुश्च तस्य भूतिं च देवा वृश्चन्ति हीडिताः ॥
स्वर रहित पद पाठय: । अस्या: । ऋच: । उपऽश्रुत्य । अथ । गोषु । अचीचरत् । आयु: । च । तस्य । भूतिम् । च । देवा: । वृश्चन्ति । हीडिता: ॥४.२८॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 28
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २८−(यः) पुरुषः (अस्याः) (ऋचः) स्तुत्याया वेदवाण्याः (उपश्रुत्य) यथाविधि श्रवणं कृत्वा (अथ) यदि (गोषु) इन्द्रियेषु। इन्द्रियाणां कुविषयेषु (अचीचरत्) चर गतिभक्षणयोः−णिच्, लुङ्। आत्मानं चालितवान् (आयुः) जीवनम् (च) (तस्य) पुरुषस्य (भूतिम्) ऐश्वर्यम् (च) अपि (देवाः) विद्वांसः (वृश्चन्ति) छिन्दन्ति (हीडिताः) हेडृ अनादरे क्रोधे च−क्त, ईकारश्छान्दसः। हेडते क्रुध्यतिकर्मा−निघ० २।१२। क्रुद्धाः सन्तः ॥
इस भाष्य को एडिट करें