अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 11
य ए॑नां व॒निमा॒यन्ति॒ तेषां॑ दे॒वकृ॑ता व॒शा। ब्र॑ह्म॒ज्येयं॒ तद॑ब्रुव॒न्य ए॑नां निप्रिया॒यते॑ ॥
स्वर सहित पद पाठये । ए॒ना॒म् । व॒निम् । आ॒ऽयन्ति॑ । तेषा॑म् । दे॒वऽकृ॑ता । व॒शा । ब्र॒ह्म॒ऽज्येय॑म् । तत् । अ॒ब्रु॒व॒न् । य: । ए॒ना॒म् । नि॒ऽप्रि॒य॒यते॑ ॥४.११॥
स्वर रहित मन्त्र
य एनां वनिमायन्ति तेषां देवकृता वशा। ब्रह्मज्येयं तदब्रुवन्य एनां निप्रियायते ॥
स्वर रहित पद पाठये । एनाम् । वनिम् । आऽयन्ति । तेषाम् । देवऽकृता । वशा । ब्रह्मऽज्येयम् । तत् । अब्रुवन् । य: । एनाम् । निऽप्रिययते ॥४.११॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(ये) विद्वांसः (एनाम्) वेदवाणीम् (वनिम्) सेवनीयाम् (आयन्ति) समन्तात् प्राप्नुवन्ति (तेषाम्) विदुषाम् (देवकृता) देवो विजिगीषा कृता साधिता यया सा (वशा) म० १। कमनीया वेदवाणी (ब्रह्मज्येयम्) ब्रह्म+ज्या वयोहानौ−यत्, आकारस्व ईत्वम्। ब्रह्माणो वेदविदो ज्येया हानियोग्या यस्य तं विदुषां हानिकरम् (तत्) वचनम् (अब्रुवन्) अकथयन् विद्वांसः (यः) मूर्खः (एनाम्) वेदवाणीम् (निप्रियायते) कर्तुः क्यङ् सलोपश्च। पा० ३।१।१०। इति प्रिय−क्यङ्। नि नीचभावेन प्रिय इवाचरति ॥
इस भाष्य को एडिट करें