अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 18
यो अ॑स्या॒ ऊधो॒ न वे॒दाथो॑ अस्या॒ स्तना॑नु॒त। उ॒भये॑नै॒वास्मै॑ दुहे॒ दातुं॒ चेदश॑कद्व॒शाम् ॥
स्वर सहित पद पाठय: । अ॒स्या॒: । ऊध॑: । न । वेद॑ । अथो॒ इति॑ । अ॒स्या॒: । स्तना॑न् । उ॒त । उ॒भये॑न । ए॒व । अ॒स्मै॒ । दु॒हे॒ । दातु॑म् । च॒ । इत् । अश॑कत् । व॒शाम् ॥४.१८॥
स्वर रहित मन्त्र
यो अस्या ऊधो न वेदाथो अस्या स्तनानुत। उभयेनैवास्मै दुहे दातुं चेदशकद्वशाम् ॥
स्वर रहित पद पाठय: । अस्या: । ऊध: । न । वेद । अथो इति । अस्या: । स्तनान् । उत । उभयेन । एव । अस्मै । दुहे । दातुम् । च । इत् । अशकत् । वशाम् ॥४.१८॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 18
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १८−(यः) विद्वान् (अस्याः) वेदवाण्याः (ऊधः) उन्दी क्लेदने−असुन्, पृषोदरादिरूपम्। सेचनम्। वर्धनम् (न) संप्रति−निरु० ७।३१। (वेद) जानाति (अथो) अपि च (अस्याः) (स्तनान्) स्तन मेघशब्दे−अच्। मेघशब्दान्। उच्चोपदेशान् (उत) एव (उभयेन) ऐहिकपारमार्थिकसुखद्वयेन (एव) अवधारणे (अस्मै) विदुषे (दुहे) दुग्धे। प्रपूरयति वशा (दातुम्) (चेत्) यदि (अशकत्) शक्तोऽभूत् (वशाम्) कमनीयां वेदवाणीम् ॥
इस भाष्य को एडिट करें