अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 41
या व॒शा उ॒दक॑ल्पयन्दे॒वा य॒ज्ञादु॒देत्य॑। तासां॑ विलि॒प्त्यं भी॒मामु॒दाकु॑रुत नार॒दः ॥
स्वर सहित पद पाठया: । व॒शा: । उ॒त्ऽअक॑ल्पयन् । दे॒वा: । य॒ज्ञात् । उ॒त्ऽएत्य॑ । तासा॑म् । वि॒ऽलि॒प्त्यम् । भी॒माम् । उ॒त्ऽआकु॑रुत । ना॒र॒द: ॥४.४१॥
स्वर रहित मन्त्र
या वशा उदकल्पयन्देवा यज्ञादुदेत्य। तासां विलिप्त्यं भीमामुदाकुरुत नारदः ॥
स्वर रहित पद पाठया: । वशा: । उत्ऽअकल्पयन् । देवा: । यज्ञात् । उत्ऽएत्य । तासाम् । विऽलिप्त्यम् । भीमाम् । उत्ऽआकुरुत । नारद: ॥४.४१॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 41
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४१−(याः) (वशाः) कमनीयाः शक्तयः (उदकल्पयन्) उत्तमाः कल्पितवन्तः (देवाः) विजिगीषवः। जिज्ञासवः (यज्ञात्) ईश्वरपूजासंगतिकरणदानव्यवहारात् (उदेत्य) उदयं प्राप्य (तासाम्) वशानां मध्ये (विलिप्त्यम्) वि+लिप उपदेहे−क्तिन्, उपदेहो वृद्धिः। नित्यं छन्दसि। पा० ४।१।४६। इति ङीप्। अमि यणादेशश्छान्दसः। विशेषा वृद्धिर्यस्यास्ताम् (भीमाम्) भयङ्ककराम् (उदाकुरुत) स्वीकृतवान् (नारदः) म० १६। नीतिप्रदो विद्वान् ॥
इस भाष्य को एडिट करें