Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 50
    सूक्त - कश्यपः देवता - वशा छन्दः - अनुष्टुप् सूक्तम् - वशा गौ सूक्त

    उ॒तैनां॑ भे॒दो नाद॑दाद्व॒शामिन्द्रे॑ण याचि॒तः। तस्मा॒त्तं दे॒वा आग॒सोऽवृ॑श्चन्नहमुत्त॒रे ॥

    स्वर सहित पद पाठ

    उ॒त । ए॒ना॒म् । भे॒द: । न । अ॒द॒दा॒त् । व॒शाम् । इन्द्रे॑ण । या॒चि॒त: । तस्मा॑त् । तम् । दे॒वा: । आग॑स: । अवृ॑श्चन् । अ॒ह॒म्ऽउ॒त्त॒रे ॥४.५०॥


    स्वर रहित मन्त्र

    उतैनां भेदो नाददाद्वशामिन्द्रेण याचितः। तस्मात्तं देवा आगसोऽवृश्चन्नहमुत्तरे ॥

    स्वर रहित पद पाठ

    उत । एनाम् । भेद: । न । अददात् । वशाम् । इन्द्रेण । याचित: । तस्मात् । तम् । देवा: । आगस: । अवृश्चन् । अहम्ऽउत्तरे ॥४.५०॥

    अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 50

    टिप्पणीः - ५०−(उत) अपि च (एनम्) (भेदः) म० ४९। भेदकः। कुटिलः (न) निषेधे (अददात्) दत्तवान् (वशाम्) कमनीयां वेदवाणीम् (इन्द्रेण) परमैश्वर्यवता ब्रह्मचारिणा (याचितः) प्रार्थितः (तम्) (देवाः) विद्वांसः (आगसः) पापात् (अवृश्चन्) छिन्नभिन्नं कृतवन्तः (अहमुत्तरे) अ० ४।२२।१। अहम्+उत्तरे। अहमुत्तरो भवामि अहमुत्तरो भवामीति कथनं यत्र। परस्परोत्कर्षाय योधानां धावनकर्मणि। महासंग्रामे ॥

    इस भाष्य को एडिट करें
    Top