अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 22
यद॒न्ये श॒तं याचे॑युर्ब्राह्म॒णा गोप॑तिं व॒शाम्। अथै॑नां दे॒वा अ॑ब्रुवन्ने॒वं ह॑ वि॒दुषो॑ व॒शा ॥
स्वर सहित पद पाठयत् । अ॒न्ये । श॒तम् । याचे॑यु: । ब्रा॒ह्म॒णा: । गोऽप॑तिम् । व॒शाम् । अथ॑ । ए॒ना॒म् । दे॒वा: । अ॒ब्रु॒व॒न् । ए॒वम् । ह॒ । वि॒दुष॑: । व॒शा॥४.२२॥
स्वर रहित मन्त्र
यदन्ये शतं याचेयुर्ब्राह्मणा गोपतिं वशाम्। अथैनां देवा अब्रुवन्नेवं ह विदुषो वशा ॥
स्वर रहित पद पाठयत् । अन्ये । शतम् । याचेयु: । ब्राह्मणा: । गोऽपतिम् । वशाम् । अथ । एनाम् । देवा: । अब्रुवन् । एवम् । ह । विदुष: । वशा॥४.२२॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 22
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २२−(यत्) यदि (अन्ये) विरोधिनः। अब्राह्मणाः (शतम्) बहुसंख्याकाः (याचेयुः) प्रार्थयेरन् (ब्राह्मणाः) सुपां सुपो भवन्तीति वक्तव्यम्। वा० पा० ७।१।३९। इति पञ्चमीस्थाने प्रथमा। ब्राह्मणेभ्यः। ब्रह्मचारिभ्यः (गोपतिम्) पृथिवीपालिकाम् (वशाम्) कमनीयां वेदवाणीम् (अथ) तदा (एनाम्) वेदवाणीम् (देवाः) विद्वांसः (अब्रुवन्) अकथयन् (एवम्) अनेन प्रकारेण (ह) निश्चयेन (विदुषः) जानतः पुरुषस्य (वशा) ॥
इस भाष्य को एडिट करें