अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 6
यो अ॑स्याः॒ कर्णा॑वास्कु॒नोत्या स दे॒वेषु॑ वृश्चते। लक्ष्म॑ कुर्व॒ इति॒ मन्य॑ते॒ कनी॑यः कृणुते॒ स्वम् ॥
स्वर सहित पद पाठय: । अ॒स्या॒: । कर्णौ॑ । आ॒ऽस्कु॒नोति॑ । आ । स: । दे॒वेषु॑ । वृ॒श्च॒ते॒ । लक्ष्म॑ । कु॒र्वे॒ । इति॑ । मन्य॑ते । कनी॑य: । कृ॒णु॒ते॒ । स्वम् ॥४.६॥
स्वर रहित मन्त्र
यो अस्याः कर्णावास्कुनोत्या स देवेषु वृश्चते। लक्ष्म कुर्व इति मन्यते कनीयः कृणुते स्वम् ॥
स्वर रहित पद पाठय: । अस्या: । कर्णौ । आऽस्कुनोति । आ । स: । देवेषु । वृश्चते । लक्ष्म । कुर्वे । इति । मन्यते । कनीय: । कृणुते । स्वम् ॥४.६॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(यः) पुरुषः (अस्याः) वेदवाण्याः (कर्णौ) कॄवृजॄ०। उ० ३।१०। कॄ विक्षेपे हिंसने विज्ञाने च−न प्रत्ययो मित्। अभ्युदयनिःश्रेयसबोधौ (आस्कुनोति) स्कुञ् आप्रवणे आच्छादने। समन्तादाच्छादयति (आ) समन्तात् (सः) (देवेषु) स्तुत्यगुणेषु (वृश्चते) छिद्यते (लक्ष्म) लक्ष दर्शनाङ्कनयोः−मनिन्। प्रधानत्वम् (कुर्वे) करोमि (इति) (मन्यते) जानाति (कनीयः) अल्प−ईयसुन्। अल्पतरम् (कृणुते) करोति (स्वम्) सर्वस्वम् ॥
इस भाष्य को एडिट करें