Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 23
    सूक्त - कश्यपः देवता - वशा छन्दः - अनुष्टुप् सूक्तम् - वशा गौ सूक्त

    य ए॒वं वि॒दुषे॑ऽद॒त्त्वाथा॒न्येभ्यो॒ दद॑द्व॒शाम्। दु॒र्गा तस्मा॑ अधि॒ष्ठाने॑ पृथि॒वी स॒हदे॑वता ॥

    स्वर सहित पद पाठ

    य: । ए॒वम् । वि॒दुषे॑ । अद॑त्त्वा । अथ॑ । अ॒न्येभ्य॑: । दद॑त् । व॒शाम् । दु॒:ऽगा । तस्मै॑ । अ॒धि॒ऽस्थाने॑ । पृ॒थि॒वी । स॒हऽदे॑वता ॥४.२३॥


    स्वर रहित मन्त्र

    य एवं विदुषेऽदत्त्वाथान्येभ्यो ददद्वशाम्। दुर्गा तस्मा अधिष्ठाने पृथिवी सहदेवता ॥

    स्वर रहित पद पाठ

    य: । एवम् । विदुषे । अदत्त्वा । अथ । अन्येभ्य: । ददत् । वशाम् । दु:ऽगा । तस्मै । अधिऽस्थाने । पृथिवी । सहऽदेवता ॥४.२३॥

    अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 23

    टिप्पणीः - २३−(यः) (एवम्) ईदृग्विधम् (विदुषे) ज्ञानिने (अदत्वा) (अध) पुनः (अन्येभ्यः) दुर्बलेन्द्रियेभ्यः (ददत्) प्रयच्छन् (वशाम्) कमनीयां वेदवाणीम् (दुर्गा) दुष्प्राप्या (तस्मै) अविदुषे (अधिष्ठाने) प्राधान्ये (पृथिवी) (सहदेवता) विद्वद्भिः सहिता ॥

    इस भाष्य को एडिट करें
    Top