अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 53
यदि॑ हु॒तां यद्यहु॑ताम॒मा च॒ पच॑ते व॒शाम्। दे॒वान्त्सब्रा॑ह्मणानृ॒त्वा जि॒ह्मो लो॒कान्निरृ॑च्छति ॥
स्वर सहित पद पाठयदि॑। हु॒ताम् । यदि॑। अहु॑ताम् । अ॒मा । च॒ । पच॑ते । व॒शाम् । दे॒वान् । सऽब्रा॑ह्मणान् । ऋ॒त्वा । जि॒ह्म:। लो॒कात् । नि: । ऋ॒च्छ॒ति॒ ॥४.५३॥
स्वर रहित मन्त्र
यदि हुतां यद्यहुताममा च पचते वशाम्। देवान्त्सब्राह्मणानृत्वा जिह्मो लोकान्निरृच्छति ॥
स्वर रहित पद पाठयदि। हुताम् । यदि। अहुताम् । अमा । च । पचते । वशाम् । देवान् । सऽब्राह्मणान् । ऋत्वा । जिह्म:। लोकात् । नि: । ऋच्छति ॥४.५३॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 53
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५३−(यदि) सम्भावनायाम् (हुताम्) दत्ताम्। आचार्येण दत्ताम् (यदि) (अहुताम्) अदत्ताम्। बलात्कारेण गृहीताम् (अमा) गृहे (च) (पचते) व्यक्तीकरोति (वशाम्) कमनीयां वेदवाणीम् (देवान्) विदुषः (सब्राह्मणान्) सहितान् (ऋत्वा) हिंसित्वा (जिह्मः) जहातेः सन्वदाकारलोपश्च। उ० १।१४१। ओहाक् त्यागे−मन्। कुटिलः। मन्दः (लोकात्) दर्शनीयात् समाजात् (निर्ऋच्छति) बहिर्गच्छति ॥
इस भाष्य को एडिट करें