Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 40
    सूक्त - कश्यपः देवता - वशा छन्दः - अनुष्टुप् सूक्तम् - वशा गौ सूक्त

    प्रि॒यं प॑शू॒नां भ॑वति॒ यद्ब्र॒ह्मभ्यः॑ प्रदी॒यते॑। अथो॑ व॒शाया॒स्तत्प्रि॒यं यद्दे॑व॒त्रा ह॒विः स्यात् ॥

    स्वर सहित पद पाठ

    प्रि॒यम् । प॒शू॒नाम् । भ॒व॒ति॒ । यत् । ब्र॒ह्मऽभ्य॑: । प्र॒ऽदी॒यते॑ । अथो॒ इति॑ । व॒शाया॑: । तत् । प्रि॒यम् । यत् । दे॒व॒ऽत्रा । ह॒वि: । स्यात् ॥४.४०॥


    स्वर रहित मन्त्र

    प्रियं पशूनां भवति यद्ब्रह्मभ्यः प्रदीयते। अथो वशायास्तत्प्रियं यद्देवत्रा हविः स्यात् ॥

    स्वर रहित पद पाठ

    प्रियम् । पशूनाम् । भवति । यत् । ब्रह्मऽभ्य: । प्रऽदीयते । अथो इति । वशाया: । तत् । प्रियम् । यत् । देवऽत्रा । हवि: । स्यात् ॥४.४०॥

    अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 40

    टिप्पणीः - ४०−(प्रियम्) हितम् (पशूनाम्) प्राणिनाम् (भवति) (यत्) यदा (ब्रह्मभ्यः) ब्रह्मचारिभ्यः (प्रदीयते) प्रकर्षेण दीयते वेदवाणी (अथो) अपि च (वशायाः) कमनीयाया वेदवाण्याः (तत्) प्रियम्। हितम् (यत्) (देवत्रा) देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम्। पा० ५।४।५६। इति त्रा। विद्वत्सु (हविः) ग्राह्यं वस्तु (स्यात्) ॥

    इस भाष्य को एडिट करें
    Top