अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 36
सर्वा॒न्कामा॑न्यम॒राज्ये॑ व॒शा प्र॑द॒दुषे॑ दुहे। अथा॑हु॒र्नार॑कं लो॒कं नि॑रुन्धा॒नस्य॑ याचि॒ताम् ॥
स्वर सहित पद पाठसर्वा॑न् । कामा॑न्। य॒म॒ऽराज्ये॑ । व॒शा । प्र॒ऽद॒दुषे॑ । दु॒हे॒ ।अथ॑ । आ॒हु॒: । नर॑कम् । लो॒कम् । नि॒ऽरु॒न्धा॒नस्य॑ । या॒चि॒ताम् ॥४.३६॥
स्वर रहित मन्त्र
सर्वान्कामान्यमराज्ये वशा प्रददुषे दुहे। अथाहुर्नारकं लोकं निरुन्धानस्य याचिताम् ॥
स्वर रहित पद पाठसर्वान् । कामान्। यमऽराज्ये । वशा । प्रऽददुषे । दुहे ।अथ । आहु: । नरकम् । लोकम् । निऽरुन्धानस्य । याचिताम् ॥४.३६॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 36
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३६−(यमराज्ये) न्यायकारिणः परमेश्वरस्य राज्यनियमे (अथ) पुनः (आहुः) कथयन्ति विद्वांसः (नरकम्) नृणाति क्लेशं प्रापयतीति नरकः। कृञादिभ्यः संज्ञायां वुन्। उ० ५।३५। नॄ नये−वुन्। सांहितिको दीर्घः। महाक्लेशस्थानम् (लोकम्) गृहम् (निरुन्धानस्य) प्रतिरोधकस्य (याचिताम्) प्रार्थितां ताम्। अन्यत् पूर्ववत्−अ० ३५ ॥
इस भाष्य को एडिट करें