अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 20
दे॒वा व॒शाम॑याच॒न्मुखं॑ कृ॒त्वा ब्राह्म॑णम्। तेषां॒ सर्वे॑षा॒मद॑द॒द्धेडं॒ न्येति॒ मानु॑षः ॥
स्वर सहित पद पाठदे॒वा: । व॒शाम् । अ॒या॒च॒न् । मुख॑म् । कृ॒त्वा । ब्राह्म॑णम् । तेषा॑म् । सर्वे॑षाम् । अद॑दत् । हेड॑म् । नि । ए॒ति॒ । मानु॑ष: ॥४.२०॥
स्वर रहित मन्त्र
देवा वशामयाचन्मुखं कृत्वा ब्राह्मणम्। तेषां सर्वेषामददद्धेडं न्येति मानुषः ॥
स्वर रहित पद पाठदेवा: । वशाम् । अयाचन् । मुखम् । कृत्वा । ब्राह्मणम् । तेषाम् । सर्वेषाम् । अददत् । हेडम् । नि । एति । मानुष: ॥४.२०॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 20
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २०−(देवाः) विजिगीषवः (वशाम्) कमनीयां वेदवाणीम् (अयाचन्) याचितवन्तः (मुखम्) मुख्यम्। प्रधानम् (कृत्वा) विधाय (ब्राह्मणम्) वेदज्ञम् (तेषाम्) विजिगीषूणाम् (सर्वेषाम्) (अददत्) ददातेः शतृ। अप्रयच्छन् (हेडम्) क्रोधम् (नि) निश्चयेन (एति) प्राप्नोति (मानुषः) मनोर्जातावञ्यतौ षुक् च। पा० ४।१।१६१। मनु−अञ् षुक् च। मनुर्मननं यस्य सः। मनुष्यः ॥
इस भाष्य को एडिट करें