अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 47
त्रीणि॒ वै व॑शाजा॒तानि॑ विलि॒प्ती सू॒तव॑शा व॒शा। ताः प्र य॑च्छेद्ब्र॒ह्मभ्यः॒ सोना॑व्र॒स्कः प्र॒जाप॑तौ ॥
स्वर सहित पद पाठत्रीणि॑ । वै । व॒शा॒ऽजा॒तानि॑ । वि॒ऽलि॒प्ती । सू॒तऽव॑शा। व॒शा । ता: । प्र । य॒च्छे॒त् । ब्र॒ह्मऽभ्य॑: । स: । अ॒ना॒व्र॒स्क: । प्र॒जाऽप॑तौ ॥४.४७॥
स्वर रहित मन्त्र
त्रीणि वै वशाजातानि विलिप्ती सूतवशा वशा। ताः प्र यच्छेद्ब्रह्मभ्यः सोनाव्रस्कः प्रजापतौ ॥
स्वर रहित पद पाठत्रीणि । वै । वशाऽजातानि । विऽलिप्ती । सूतऽवशा। वशा । ता: । प्र । यच्छेत् । ब्रह्मऽभ्य: । स: । अनाव्रस्क: । प्रजाऽपतौ ॥४.४७॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 47
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४७−(त्रीणि) कर्मोपासनाज्ञानानि (वै) एव (वशाजातानि) वशायाः कमनीयाया वेदवाण्याः प्रसिद्धकर्माणि (विलिप्ती) म० ४१। विशेषवृद्धियुक्ता (सूतवशा) म० ४४। उत्पन्नस्य जगतो वशयित्री (वशा) कमनीया वेदवाणी (ताः) एकवचनस्य बहुवचनम्। ताम् (प्र) (यच्छेत्) दद्यात् (ब्रह्मभ्यः) ब्रह्मचारिभ्यः (अनाव्रस्कः) नञ्+आङ्+ओव्रश्चू छेदने−घञ्। चजोः कु घिण्ण्यतोः। पा० ७।३।५२। इति कुत्वम्। अच्छेद्यः। सुदृढः (प्रजापतौ) जीवानां पालके परमेश्वरे ॥
इस भाष्य को एडिट करें