अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 51
ये व॒शाया॒ अदा॑नाय॒ वद॑न्ति परिरा॒पिणः॑। इन्द्र॑स्य म॒न्यवे॑ जा॒ल्मा आ वृ॑श्चन्ते॒ अचि॑त्त्या ॥
स्वर सहित पद पाठये । व॒शाया॑: । अदा॑नाय । वद॑न्ति । प॒रि॒ऽरा॒पिण॑: । इन्द्र॑स्य । म॒न्यवे॑ । जा॒ल्मा: । आ । वृ॒श्च॒न्ते॒ । अचि॑त्त्या ॥४.५१॥
स्वर रहित मन्त्र
ये वशाया अदानाय वदन्ति परिरापिणः। इन्द्रस्य मन्यवे जाल्मा आ वृश्चन्ते अचित्त्या ॥
स्वर रहित पद पाठये । वशाया: । अदानाय । वदन्ति । परिऽरापिण: । इन्द्रस्य । मन्यवे । जाल्मा: । आ । वृश्चन्ते । अचित्त्या ॥४.५१॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 51
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५१−(ये) (वशायाः) कमनीयाया वेदवाण्याः (वदन्ति) (परिरापिणः) रप व्यक्तायां वाचि−णिनि। परिलपनशीलाः (इन्द्रस्य) परमैश्वर्यवतः पुरुषस्य (मन्यवे) क्रोधाय (जाल्माः) जल अपवारणे−णिच्−म प्रत्ययः। पामराः। क्रूराः (आ) समन्तात् (वृश्चन्ते) छिद्यन्ते (अचित्या) अज्ञानेन ॥
इस भाष्य को एडिट करें