अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 14
अ॑मो॒तं वासो॑ दद्या॒द्धिर॑ण्य॒मपि॒ दक्षि॑णाम्। तथा॑ लो॒कान्त्समा॑प्नोति॒ ये दि॒व्या ये च॒ पार्थि॑वाः ॥
स्वर सहित पद पाठअ॒मा॒ऽउ॒तम् । वास॑: । द॒द्या॒त् । हिर॑ण्यम् । अपि॑ । दक्षि॑णाम् । तथा॑ । लो॒कान् । सम् । आ॒प्नो॒ति॒ । ये । दि॒व्या: । ये । च॒ । पार्थि॑वा: ॥५.१४॥
स्वर रहित मन्त्र
अमोतं वासो दद्याद्धिरण्यमपि दक्षिणाम्। तथा लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः ॥
स्वर रहित पद पाठअमाऽउतम् । वास: । दद्यात् । हिरण्यम् । अपि । दक्षिणाम् । तथा । लोकान् । सम् । आप्नोति । ये । दिव्या: । ये । च । पार्थिवा: ॥५.१४॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 14
भाषार्थ -
[मुमुक्षु] (अमोतम् वासः) घर में बुना वस्त्र, (अपि) तथा (हिरण्यम्) सोना (दक्षिणाम्) यज्ञ कराने वाले को दक्षिणा में (दद्यात्) दे। (तथा) इस प्रकार मुमुक्षु, (लोकान्) उन लोकों को (समाप्नोति) प्राप्त करता है, (ये दिव्याः) जो दिव्य हैं (ये च) और जो (पार्थिवाः) पार्थिव है (देखो मन्त्र २५, २६)।