अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 13
यो अ॑स्य॒ स्याद्व॑शाभो॒गो अ॒न्यामि॑च्छेत॒ तर्हि॒ सः। हिंस्ते॒ अद॑त्ता॒ पुरु॑षं याचि॒तां च॒ न दित्स॑ति ॥
स्वर सहित पद पाठय: । अ॒स्य॒ । स्यात् । व॒शा॒ऽभो॒ग: । अ॒न्याम् । इ॒च्छे॒त॒ । तर्हि॑ । स: । हिंस्ते॑ । अद॑त्ता । पुरु॑षम् । या॒चि॒ताम् । च॒ । न । दित्स॑ति ॥४.१३॥
स्वर रहित मन्त्र
यो अस्य स्याद्वशाभोगो अन्यामिच्छेत तर्हि सः। हिंस्ते अदत्ता पुरुषं याचितां च न दित्सति ॥
स्वर रहित पद पाठय: । अस्य । स्यात् । वशाऽभोग: । अन्याम् । इच्छेत । तर्हि । स: । हिंस्ते । अदत्ता । पुरुषम् । याचिताम् । च । न । दित्सति ॥४.१३॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 13
विषय - वेदवाणी के प्रकाश करने के श्रेष्ठ गुणों का उपदेश।
पदार्थ -
(यः) जो मनुष्य (अस्य) अपनी (वशाभोगः) वेदवाणी का सुख पानेवाला (स्यात्) होना चाहे, (तर्हि) तब (सः) वह (अन्याम्) जीवन देनेवाली [वेदवाणी] को (इच्छेत) चाहे। (अदत्ता) न दी हुई [वेदवाणी] (पुरुषम्) [उस] पुरुष को (च) अवश्य (हिंस्ते) मार डालती है, [जो] (याचिताम्) माँगी हुई [वेदवाणी] को (न) नहीं (दित्सति) देना चाहता है ॥१३॥
भावार्थ - वेदविज्ञान को प्रीति से खोजता हुआ और प्रकाश करता हुआ मनुष्य सुख भोगता है, और जो उसकी प्रवृत्ति को रोकता है, वह आत्मा को संकुचित करने से दुःख पाता है ॥१३॥
टिप्पणी -
१३−(यः) पुरुषः (अस्य) स्वकीयस्य (स्यात्) भवेत् (वशाभोगः) वशायाः कमनीयाया वेदवाण्या भोगः सुखानुभवो यस्य सः (अन्याम्) माछाशसिभ्यो यः। उ० ४।१०९। अन जीवने−यः। जीवयित्रीम्। जीवनदात्रीम् (इच्छेत) प्रीणीयात् (तर्हि) तदा सः (हिंस्ते) नाशयति (अदत्ता) वेदवाणी (पुरुषम्) (याचिताम्) प्रार्थिताम् (च) अवश्यम् (न) निषेधे (दित्सति) दातुमिच्छति ॥