अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 15
स्वमे॒तद॑च्छायन्ति॒ यद्व॒शां ब्रा॑ह्म॒णा अ॒भि। यथै॑नान॒न्यस्मि॑ञ्जिनी॒यादे॒वास्या॑ नि॒रोध॑नम् ॥
स्वर सहित पद पाठस्वम् । ए॒तत् । अ॒च्छ॒ऽआय॑न्ति । यत् । व॒शाम् । ब्रा॒ह्म॒णा: । अ॒भि । यथा॑ । ए॒ना॒न् । अ॒न्यस्मि॑न् । जि॒नी॒यात् । ए॒व । अ॒स्या॒: । नि॒ऽरोध॑नम् ॥४.१५॥
स्वर रहित मन्त्र
स्वमेतदच्छायन्ति यद्वशां ब्राह्मणा अभि। यथैनानन्यस्मिञ्जिनीयादेवास्या निरोधनम् ॥
स्वर रहित पद पाठस्वम् । एतत् । अच्छऽआयन्ति । यत् । वशाम् । ब्राह्मणा: । अभि । यथा । एनान् । अन्यस्मिन् । जिनीयात् । एव । अस्या: । निऽरोधनम् ॥४.१५॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 15
विषय - वेदवाणी के प्रकाश करने के श्रेष्ठ गुणों का उपदेश।
पदार्थ -
(ब्राह्मणाः) ब्राह्मण [ब्रह्मचारी लोग] (वशाम्) वशा [कामनायोग्य वेदवाणी] को (अभि) सब ओर से (अच्छ−आयन्ति) अच्छे प्रकार प्राप्त करते हैं, (यत्) क्योंकि (एतत्) यह (स्वम्) [उनका] सर्वस्व है, [और] (यथा) क्योंकि (एनान्) इन [ब्रह्मचारियों] को (अन्यस्मिन्) भिन्न कर्म [अधर्म] में (जिनीयात्) मनुष्य हानि करे, [वह] (अस्याः) इस [वेदवाणी] का (निरोधनम्) रोक देना (एव) ही है ॥१५॥
भावार्थ - ब्रह्मज्ञानियों का धर्म है कि वेदवाणी को ही अपना कोश समझकर प्राप्त करें और प्रकाश करें और जो पुरुष अधर्म के कारण उसको रोकते हैं, वे आत्मघाती होने से नष्ट-भ्रष्ट हो जाते हैं ॥१५॥
टिप्पणी -
१५−(स्वम्) धनम् (एतत्) (अच्छायन्ति) म० १४। (यत्) यतः (वशाम्) म० १। कमनीयां वेदवाणीम् (ब्राह्मणाः) ब्रह्मचारिणः (अभि) सर्वतः (यथा) यस्मात् कारणात् (एनान्) ब्रह्मचारिणः (अन्यस्मिन्) धर्मविरुद्धे कर्मणि (जिनीयात्) ज्या वयोहानौ। न्यूनयेत् मनुष्यः (एव) अवश्यम् (अस्याः) वेदवाण्याः (निरोधनम्) प्रतिबन्धनम् ॥