अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 52
ये गोप॑तिं परा॒णीया॑था॒हुर्मा द॑दा॒ इति॑। रु॒द्रस्या॑स्तां ते हे॒तिं परि॑ य॒न्त्यचि॑त्त्या ॥
स्वर सहित पद पाठये । गोऽप॑तिम् । प॒रा॒ऽनीय॑ । अथ॑ । आ॒हु: । मा । द॒दा॒: । इति॑ । रु॒द्रस्य॑ । अ॒स्ताम् । ते । हे॒तिम् । परि॑ । य॒न्ति॒ । अचि॑त्त्या ॥४.५२॥
स्वर रहित मन्त्र
ये गोपतिं पराणीयाथाहुर्मा ददा इति। रुद्रस्यास्तां ते हेतिं परि यन्त्यचित्त्या ॥
स्वर रहित पद पाठये । गोऽपतिम् । पराऽनीय । अथ । आहु: । मा । ददा: । इति । रुद्रस्य । अस्ताम् । ते । हेतिम् । परि । यन्ति । अचित्त्या ॥४.५२॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 52
विषय - वेदवाणी के प्रकाश करने के श्रेष्ठ गुणों का उपदेश।
पदार्थ -
(अथ) और (ये) जो (गोपतिम्) भूपति [राजा] को (पराणीय) बहका कर (आहुः) कहते हैं−“(मा ददाः इति) मत दे।” (ते) वे लोग (अचित्त्या) अज्ञान से (रुद्रस्य) दुःखनाशक शूर पुरुष के (अस्ताम्) चलाये हुए (हेतिम्) वज्र को (परि) सब ओर से (यन्ति) पाते हैं ॥५२॥
भावार्थ - जो दुष्ट दुर्बलेन्द्रिय राजा को कुमार्ग में डाल कर वेदवाणी के प्रचार में रुकावट डाले, उसको शूरवीर पुरुष यथावत् दण्ड देवे ॥५२॥
टिप्पणी -
५२−(ये) दुष्टाः (गोपतिम्) भूपालम्। राजानम् (पराणीय) कुमार्गे नीत्वा (अथ) पुनः (आहुः) कथयन्ति (मा ददाः) मा देहि (इति) (रुद्रस्य) दुःखनाशकस्य (अस्ताम्) क्षिप्ताम् (ते) दुष्टाः (हेतिम्) वज्रम् (परि) सर्वतः (यन्ति) प्राप्नुवन्ति (अचित्त्या) अज्ञानेन ॥