अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 8
यद॑स्या॒ गोप॑तौ स॒त्या लोम॒ ध्वाङ्क्षो॒ अजी॑हिडत्। ततः॑ कुमा॒रा म्रि॑यन्ते॒ यक्ष्मो॑ विन्दत्यनाम॒नात् ॥
स्वर सहित पद पाठयत् । अ॒स्या॒: । गोऽप॑तौ । स॒त्या: । लोम॑ । ध्वाङ्क्ष॑: । अजी॑हिडत् । तत॑: । कु॒मा॒रा: । म्रि॒य॒न्ते॒ । यक्ष्म॑: । वि॒न्द॒ति॒ । अ॒ना॒म॒नात् ॥४.८॥
स्वर रहित मन्त्र
यदस्या गोपतौ सत्या लोम ध्वाङ्क्षो अजीहिडत्। ततः कुमारा म्रियन्ते यक्ष्मो विन्दत्यनामनात् ॥
स्वर रहित पद पाठयत् । अस्या: । गोऽपतौ । सत्या: । लोम । ध्वाङ्क्ष: । अजीहिडत् । तत: । कुमारा: । म्रियन्ते । यक्ष्म: । विन्दति । अनामनात् ॥४.८॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 8
विषय - वेदवाणी के प्रकाश करने के श्रेष्ठ गुणों का उपदेश।
पदार्थ -
(यत्) यदि (गोपतौ) वेदवाणी के रक्षक [ब्रह्मचारी] में (सत्याः) वर्तमान (अस्याः) इस (वेदवाणी) के (लोम) गमन को (ध्वाङ्क्षः) काँव-काँव करनेवाले [कौवे समान दुष्ट मनुष्य] ने (अजीहिडत्) तुच्छ माना है। (ततः) उस कारण से (कुमाराः) कुमार [शत्रुमारक बालक] (म्रियन्ते) मर जाते हैं, और (अनामनात्) यथावत् न विचारने से [उस कुमार्गी को] (यक्ष्मः) राजरोग (विन्दति) पकड़ लेता है ॥८॥
भावार्थ - जब कुकर्मी मनुष्य सर्वरक्षक वेद आज्ञा से उलटा चलता है, वह आप और उसके बच्चे आदि महा विपत्ति में पड़ते हैं ॥८॥
टिप्पणी -
८−(यत्) यदि (अस्याः) वेदवाण्याः (गोपतौ) म० ४। गोर्वेदवाण्या रक्षके ब्रह्मचारिणि (सत्याः) वर्तमानायाः (लोम) नामन्सीसन्व्योमन्रोमन्लोमन्०। उ० ४।१५१। रु गतौ−मनिन् रस्य लः, यद्वा लूञ् छेदने−मनिन्। गमनम्। दुःखच्छेदनम्। (ध्वाङ्क्षः) ध्वाक्षि घोरशब्दे−अच्। घोरध्वनिः पुरुषः, यद्वा काकतुल्यहिंसकः (अजीहिडत्) हेडृ अनादरे वेष्टने च। तिरस्कृतवान् (ततः) तस्मात् (कुमाराः) कुमार क्रीडायाम्−अच्, यद्वा कुत्सितो मारो यस्मात्, कौ पृथिव्यां मारयति दुष्टान्। कीडाशीलाः। पृथिव्यां शत्रुनाशकाः (म्रियन्ते) (यक्ष्मः) राजरोगः (विन्दति) गृह्णाति (अनामनात्) म० ५। सर्वथा मननराहित्यात् ॥