अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 9
यद॑स्याः॒ पल्पू॑लनं॒ शकृ॑द्दा॒सी स॒मस्य॑ति। ततोऽप॑रूपं जायते॒ तस्मा॒दव्ये॑ष्य॒देन॑सः ॥
स्वर सहित पद पाठयत् । अ॒स्या॒: । पल्पू॑लनम् । शकृ॑त् । दा॒सी । स॒म्ऽअस्य॑ति । तत॑: । अप॑ऽरूपम् । जा॒य॒ते॒ । तस्मा॑त् । अवि॑ऽएष्यत् । एन॑स: ॥४.९॥
स्वर रहित मन्त्र
यदस्याः पल्पूलनं शकृद्दासी समस्यति। ततोऽपरूपं जायते तस्मादव्येष्यदेनसः ॥
स्वर रहित पद पाठयत् । अस्या: । पल्पूलनम् । शकृत् । दासी । सम्ऽअस्यति । तत: । अपऽरूपम् । जायते । तस्मात् । अविऽएष्यत् । एनस: ॥४.९॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 9
विषय - वेदवाणी के प्रकाश करने के श्रेष्ठ गुणों का उपदेश।
पदार्थ -
(यत्) यदि (अस्याः) इस [वेदवाणी] के (शकृत्) शक्तिवाले (पल्पूलनम्) ज्ञानसमूह को (दासी) हिंसक प्रजा [स्त्री वा पुरुष] (समस्यति) फेंक देती है। (ततः) तो (तस्मात् एनसः) उस पाप से [उस पापी को] (अव्येष्यत्) न दूर होनेवाला (अपरूपम्) कुरूप [कलङ्क का टीका] (जायते) हो जाता है ॥९॥
भावार्थ - जब कोई दुराचारी वेद आज्ञा न मानकर भारी पाप कर बैठता है, तो उसका सारा जीवन कलङ्कित हो जाता है ॥९॥
टिप्पणी -
९−(यत्) यदि (अस्याः) वेदवाण्याः (पल्पूलनम्) पल गतौ−क्विप्+पूल संघाते−ल्युट्। ज्ञानसमूहम् (शकृत्) शकेर्ऋतिन्। उ० ४।५८। शक्ल शक्तौ−ऋतिन्। शक्तियुक्तम् (दासी) अ० १२।३।१३। हिंसिका प्रजा (समस्यति) सर्वथा क्षिपति (ततः) तस्मात् कारणात् (अपरूपम्) कुत्सितरूपम् (जायते) प्रादुर्भवति (तस्मात्) (अव्येष्यत्) नञ्+वि+इण् गतौ−स्यतृ। अपृथग् गमिष्यत् (एनसः) पापात् ॥