अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 3
कू॒टया॑स्य॒ सं शी॑र्यन्ते श्लो॒णया॑ का॒टम॑र्दति। ब॒ण्डया॑ दह्यन्ते गृ॒हाः का॒णया॑ दीयते॒ स्वम् ॥
स्वर सहित पद पाठकू॒टया॑ । अ॒स्य॒ । सम् । शी॒र्य॒न्ते॒ । श्लो॒णया॑ । का॒टम् । अ॒र्द॒ति॒ । ब॒ण्डया॑ । द॒ह्य॒न्ते॒ । गृ॒हा: । का॒णया॑ । दी॒य॒ते॒ । स्वम् ॥४.३॥
स्वर रहित मन्त्र
कूटयास्य सं शीर्यन्ते श्लोणया काटमर्दति। बण्डया दह्यन्ते गृहाः काणया दीयते स्वम् ॥
स्वर रहित पद पाठकूटया । अस्य । सम् । शीर्यन्ते । श्लोणया । काटम् । अर्दति । बण्डया । दह्यन्ते । गृहा: । काणया । दीयते । स्वम् ॥४.३॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 3
विषय - वेदवाणी के प्रकाश करने के श्रेष्ठ गुणों का उपदेश।
पदार्थ -
(कूटया) [वेदवाणी के] नहीं देने से (अस्य) उस पुरुष के (गृहाः) घर (सं शीर्यन्ते) सर्वथा नष्ट किये जाते हैं, और (बण्डया) ढक देने से (दह्यन्ते) जलाये जाते हैं, (श्लोणया) बटोर रखने से (काटम्) अपनी प्रसिद्धता को (अर्दति) वह नष्ट करता है, और (काणया) मूँद रखने से (स्वम्) [उसका] सर्वस्व (दीयते) बट जाता है ॥३॥
भावार्थ - वेदवाणी के उपदेश और प्रचार के विना मनुष्य तनक्षीण, मनमलीन और धनहीन होकर महा कष्ट पाते हैं ॥३॥
टिप्पणी -
३−(कूटया) कूट दानाभावे−घञ्। टाप्। अदानेन (अस्य) पुरुषस्य (सं शीर्यन्ते) सर्वथा नाश्यन्ते (श्लोणया) श्लोणृ संघाते−घञ्। राशीकरणेन (काटम्) कटी गतौ−घञ्। प्राकट्यम्। प्रसिद्धिम् (अर्दति) नाशयति (बण्डया) बडि विभाजने वेष्टने च−घञ्। वेष्टनेन (दह्यन्ते) भस्मीक्रियन्ते (गृहाः) निवासाः (काणया) कण निमीलने−घञ्। निमीलनेन (दीयते) दीङ् क्षये। नश्यति (स्वम्) सर्वस्वम् ॥