अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 50
उ॒तैनां॑ भे॒दो नाद॑दाद्व॒शामिन्द्रे॑ण याचि॒तः। तस्मा॒त्तं दे॒वा आग॒सोऽवृ॑श्चन्नहमुत्त॒रे ॥
स्वर सहित पद पाठउ॒त । ए॒ना॒म् । भे॒द: । न । अ॒द॒दा॒त् । व॒शाम् । इन्द्रे॑ण । या॒चि॒त: । तस्मा॑त् । तम् । दे॒वा: । आग॑स: । अवृ॑श्चन् । अ॒ह॒म्ऽउ॒त्त॒रे ॥४.५०॥
स्वर रहित मन्त्र
उतैनां भेदो नाददाद्वशामिन्द्रेण याचितः। तस्मात्तं देवा आगसोऽवृश्चन्नहमुत्तरे ॥
स्वर रहित पद पाठउत । एनाम् । भेद: । न । अददात् । वशाम् । इन्द्रेण । याचित: । तस्मात् । तम् । देवा: । आगस: । अवृश्चन् । अहम्ऽउत्तरे ॥४.५०॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 50
विषय - वेदवाणी के प्रकाश करने के श्रेष्ठ गुणों का उपदेश।
पदार्थ -
(उत) और (इन्द्रेण) ऐश्वर्यवान् [ब्रह्मचारी] से (याचितः) याचना किये हुए (भेदः) फूट डालनेवाले ने (एनाम्) इस (वशाम्) [कामनायोग्य वेदवाणी] को (न अददात्) नहीं दिया। (देवाः) विद्वानों ने (तस्मात् आगसः) उस पाप से (अहमुत्तरे) संग्राम में [जहाँ अपनी-अपनी बड़ाई के लिये झगड़ते हैं] (तम्) उस [वेदशत्रु] को (अवृश्चन्) छिन्न-भिन्न किया है ॥५०॥
भावार्थ - जो मनुष्य वेदविद्या के दान को रोकता है, विद्वान् लोग उस जगत् के हानिकारक को नष्ट कर देते हैं ॥५०॥
टिप्पणी -
५०−(उत) अपि च (एनम्) (भेदः) म० ४९। भेदकः। कुटिलः (न) निषेधे (अददात्) दत्तवान् (वशाम्) कमनीयां वेदवाणीम् (इन्द्रेण) परमैश्वर्यवता ब्रह्मचारिणा (याचितः) प्रार्थितः (तम्) (देवाः) विद्वांसः (आगसः) पापात् (अवृश्चन्) छिन्नभिन्नं कृतवन्तः (अहमुत्तरे) अ० ४।२२।१। अहम्+उत्तरे। अहमुत्तरो भवामि अहमुत्तरो भवामीति कथनं यत्र। परस्परोत्कर्षाय योधानां धावनकर्मणि। महासंग्रामे ॥