अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 18
यो अ॑स्या॒ ऊधो॒ न वे॒दाथो॑ अस्या॒ स्तना॑नु॒त। उ॒भये॑नै॒वास्मै॑ दुहे॒ दातुं॒ चेदश॑कद्व॒शाम् ॥
स्वर सहित पद पाठय: । अ॒स्या॒: । ऊध॑: । न । वेद॑ । अथो॒ इति॑ । अ॒स्या॒: । स्तना॑न् । उ॒त । उ॒भये॑न । ए॒व । अ॒स्मै॒ । दु॒हे॒ । दातु॑म् । च॒ । इत् । अश॑कत् । व॒शाम् ॥४.१८॥
स्वर रहित मन्त्र
यो अस्या ऊधो न वेदाथो अस्या स्तनानुत। उभयेनैवास्मै दुहे दातुं चेदशकद्वशाम् ॥
स्वर रहित पद पाठय: । अस्या: । ऊध: । न । वेद । अथो इति । अस्या: । स्तनान् । उत । उभयेन । एव । अस्मै । दुहे । दातुम् । च । इत् । अशकत् । वशाम् ॥४.१८॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 18
विषय - वेदवाणी के प्रकाश करने के श्रेष्ठ गुणों का उपदेश।
पदार्थ -
(यः) जो [विद्वान्] (अस्याः) इस [वेदवाणी] के (ऊधः) सींचने को, (अथो उत) और भी (अस्याः) इसके (स्तनान्) गर्जन शब्दों [बड़े उपदेशों] को (न) अव [विद्या प्राप्त करके] (वेद) जानता है। वह [वेदवाणी] (उभयेन) दोनों [इस लोक और परलोक के सुख] से (एव) ही (अस्मै) इस [ब्रह्मज्ञानी] को (दुहे) भर देती है, (च, इत्=चेत्) जो (वशाम्) वशा [कामनायोग्य वेदवाणी] (दातुम् अशकत्) दे सका है ॥१८॥
भावार्थ - जब मनुष्य वेदों के पवित्र लाभों और उपदेशों को समझ लेता है और संसार में प्रकाश करता है, वह इस जन्म और दूसरे जन्म का आनन्द पाता है ॥१८॥
टिप्पणी -
१८−(यः) विद्वान् (अस्याः) वेदवाण्याः (ऊधः) उन्दी क्लेदने−असुन्, पृषोदरादिरूपम्। सेचनम्। वर्धनम् (न) संप्रति−निरु० ७।३१। (वेद) जानाति (अथो) अपि च (अस्याः) (स्तनान्) स्तन मेघशब्दे−अच्। मेघशब्दान्। उच्चोपदेशान् (उत) एव (उभयेन) ऐहिकपारमार्थिकसुखद्वयेन (एव) अवधारणे (अस्मै) विदुषे (दुहे) दुग्धे। प्रपूरयति वशा (दातुम्) (चेत्) यदि (अशकत्) शक्तोऽभूत् (वशाम्) कमनीयां वेदवाणीम् ॥