अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 27
याव॑दस्या॒ गोप॑ति॒र्नोप॑शृणु॒यादृचः॑ स्व॒यम्। चरे॑दस्य॒ ताव॒द्गोषु॒ नास्य॑ श्रु॒त्वा गृ॒हे व॑सेत् ॥
स्वर सहित पद पाठयाव॑त् । अ॒स्या॒: । गोऽप॑ति: । न । उ॒प॒ऽशृ॒णु॒यात् । ऋच॑: । स्व॒यम् । चरे॑त् । अ॒स्य॒ । ताव॑त् । गोषु॑ । न । अ॒स्य॒ । श्रु॒त्वा । गृ॒हे । व॒से॒त् ॥४.२७॥
स्वर रहित मन्त्र
यावदस्या गोपतिर्नोपशृणुयादृचः स्वयम्। चरेदस्य तावद्गोषु नास्य श्रुत्वा गृहे वसेत् ॥
स्वर रहित पद पाठयावत् । अस्या: । गोऽपति: । न । उपऽशृणुयात् । ऋच: । स्वयम् । चरेत् । अस्य । तावत् । गोषु । न । अस्य । श्रुत्वा । गृहे । वसेत् ॥४.२७॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 27
विषय - वेदवाणी के प्रकाश करने के श्रेष्ठ गुणों का उपदेश।
पदार्थ -
(गोपतिः) वेदवाणी का रक्षक [ब्रह्मचारी] (यावत्) जब तक (स्वयम्) सुन्दर रीति से (अस्याः) इस (ऋचः) स्तुतियोग्य [वेदवाणी] का (न) न (उपशृणुयात्) यथाविधि श्रवण कर लेवे, (तावत्) तब तक (अस्य) इस [परमेश्वर] की (गोषु) वाणियों में (चरेत्) चलता रहे, और (श्रुत्वा) श्रवण करके (अस्य) अपने (गृहे) घर में (न) अव (वसेत्) बसे ॥२७॥
भावार्थ - जब ब्रह्मचारी, पुत्र वा पुत्री, यथाविधि श्रवण, मनन और निदिध्यासन से वेदविद्या प्राप्त कर चुके, तब समावर्तन करके गृहाश्रम में प्रवेश करे ॥२७॥
टिप्पणी -
२७−(यावत्) (अस्याः) पुरोवर्तिन्याः (गोपतिः) वेदवाणीरक्षको ब्रह्मचारी (न) निषेधे (उपशृणुयात्) गुरुकुले श्रवणं कुर्यात् (ऋचः) स्तुत्याया वेदवाण्याः (स्वयम्) सु+अय गतौ−अमु। सुष्ठु शास्त्ररीत्या यथा तथा (चरेत्) विचरेत्। अभ्यस्येत् (अस्य) व्यापकस्य परमेश्वरस्य (तावत्) (गोषु) वेदवाक्षु (न) संप्रति (अस्य) स्वकीयस्य (श्रुत्वा) श्रवणं कृत्वा (गृहे) गृहाश्रमे (वसेत्) निवसेत् ॥