अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 21
हेडं॑ पशू॒नां न्येति ब्राह्म॒णेभ्योऽद॑दद्व॒शाम्। दे॒वानां॒ निहि॑तं भा॒गं मर्त्य॒श्चेन्नि॑प्रिया॒यते॑ ॥
स्वर सहित पद पाठहेड॑म् । प॒शू॒नाम् । नि । ए॒ति॒ । ब्रा॒ह्म॒णेभ्य॑: । अद॑दत् । व॒शाम् । दे॒वाना॑म् । निऽहि॑तम् । भा॒गम् । मर्त्य॑: । च॒ । इत् । नि॒ऽप्रि॒य॒यते॑ ॥४.२१॥
स्वर रहित मन्त्र
हेडं पशूनां न्येति ब्राह्मणेभ्योऽददद्वशाम्। देवानां निहितं भागं मर्त्यश्चेन्निप्रियायते ॥
स्वर रहित पद पाठहेडम् । पशूनाम् । नि । एति । ब्राह्मणेभ्य: । अददत् । वशाम् । देवानाम् । निऽहितम् । भागम् । मर्त्य: । च । इत् । निऽप्रिययते ॥४.२१॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 21
विषय - वेदवाणी के प्रकाश करने के श्रेष्ठ गुणों का उपदेश।
पदार्थ -
(ब्राह्मणेभ्यः) ब्राह्मणों (ब्रह्मचारियों) को (वशाम्) वशा [कामनायोग्य वेदवाणी] (अददत्) न देता हुआ पुरुष (पशूनाम्) सब प्राणियों का (हेडम्) क्रोध (नि) निश्चय करके (एति) पाता है। (च इत्=चेत्) यदि (मर्त्यः) मनुष्य (देवानाम्) विजय चाहनेवालों के (निहितम्) नियम से रक्खे हुए (भागम्) ऐश्वर्यों के समूह [वेदवाणी] को (निप्रियायते) ओछेपन से प्रिय सा मानता है ॥२१॥
भावार्थ - जो मनुष्य संकुचित मन होकर वेदवाणी के प्रकाश करने में विघ्न डालता है, वह सब ही प्राणियों का शत्रु होता है ॥२१॥
टिप्पणी -
२१−(हेडम्) अनादरम्। क्रोधम् (नि) निश्चयेन (एति) प्राप्नोति (ब्राह्मणेभ्यः) ब्रह्मचारिभ्यः (अददत्) म० २०। अप्रयच्छन् (वशाम्) कमनीयां वेदवाणीम् (देवानाम्) विजिगीषूणाम् (निहितम्) नियमेन स्थापितम् (भागम्) भग−अण् समूहे। भगानामैश्वर्याणां समूहं वेदवाणीम् (मर्त्यः) मनुष्यः (चेत्) यदि (नि प्रियायते) म० ११। नीचभावेन प्रिय इवाचरति ॥