अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 48
ए॒तद्वो॑ ब्राह्मणा ह॒विरिति॑ मन्वीत याचि॒तः। व॒शां चेदे॑नं॒ याचे॑यु॒र्या भी॒माद॑दुषो गृ॒हे ॥
स्वर सहित पद पाठए॒तत् । व॒: । ब्रा॒ह्म॒णा॒: । ह॒वि: । इति॑ । म॒न्वी॒त॒ । या॒चि॒त: । व॒शाम्। च॒ । इत् । ए॒न॒म् । याचे॑यु: । या । भी॒मा । अद॑दुष: । गृ॒हे॥४.४८॥
स्वर रहित मन्त्र
एतद्वो ब्राह्मणा हविरिति मन्वीत याचितः। वशां चेदेनं याचेयुर्या भीमाददुषो गृहे ॥
स्वर रहित पद पाठएतत् । व: । ब्राह्मणा: । हवि: । इति । मन्वीत । याचित: । वशाम्। च । इत् । एनम् । याचेयु: । या । भीमा । अददुष: । गृहे॥४.४८॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 48
विषय - वेदवाणी के प्रकाश करने के श्रेष्ठ गुणों का उपदेश।
पदार्थ -
“(ब्राह्मणाः) हे ब्रह्मचारियो ! (एतत्) यह (वः) तुम्हारा (हविः) ग्राह्य द्रव्य है”−(इति) ऐसा (याचितः) जिससे [वेदवाणी] माँगी जावे वह [विद्वान्] (मन्वीत) माने। (वशाम्) कामनायोग्य [वेदवाणी] को (च इत्) ही (एनाम्) इस [विद्वान्] से (याचेयुः) वे [ब्रह्मचारी] माँगे, (या) जो [वेदवाणी] (अददुषः) दान न करनेवाले के (गृहे) घर में (भीमा) डरावनी है ॥४८॥
भावार्थ - विद्वान् को चाहिये के ब्रह्मचारियों को वेदवाणी का दान करके संसार का उपकार करे। विद्या की रोक से अविद्या के कारण विपत्तियाँ फैलती हैं ॥४८॥
टिप्पणी -
४८−(एतत्) (वः) युष्माकम् (ब्राह्मणाः) हे ब्रह्मचारिणः (हविः) ग्राह्यं वस्तु (इति) एवम् (मन्वीत) जानीयात् (याचितः) प्रार्थितः पुरुषः (वशाम्) कमनीयां वेदवाणीम् (च इत्) एव (एनम्) पुरुषम् (याचेयुः) भिक्षेरन् (या) वेदवाणी (भीमा) भयङ्करा (अददुषः) अदत्तवतः पुरुषस्य (गृहे) गेहे ॥