अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 49
दे॒वा व॒शां पर्य॑वद॒न्न नो॑ऽदा॒दिति॑ हीडि॒ताः। ए॒ताभि॑रृ॒ग्भिर्भे॒दं तस्मा॒द्वै स परा॑भवत् ॥
स्वर सहित पद पाठदे॒वा: । व॒शाम् । परि॑ । अ॒व॒द॒न् । न । न॒: । अ॒दा॒त् । इति॑ । ही॒डि॒ता: । ॒ए॒ताभि॑: । ऋ॒क्ऽभि: । भे॒दम् । तस्मा॑त् । वै । स: । परा॑ । अ॒भ॒व॒त् ॥४.४९॥
स्वर रहित मन्त्र
देवा वशां पर्यवदन्न नोऽदादिति हीडिताः। एताभिरृग्भिर्भेदं तस्माद्वै स पराभवत् ॥
स्वर रहित पद पाठदेवा: । वशाम् । परि । अवदन् । न । न: । अदात् । इति । हीडिता: । एताभि: । ऋक्ऽभि: । भेदम् । तस्मात् । वै । स: । परा । अभवत् ॥४.४९॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 49
विषय - वेदवाणी के प्रकाश करने के श्रेष्ठ गुणों का उपदेश।
पदार्थ -
(हीडिताः) क्रोधित (देवाः) विद्वान् लोग (एताभिः) इन (ऋग्भिः) स्तुतियोग्य वेदवाणियों द्वारा (भेदम्) फूट डालनेवाले से (परि) घिर कर (अवदन्) बोले−“(वशाम्) कामनायोग्य [वेदवाणी] (नः) हमको (न अदात्) उसने नहीं दी है, (इति) सो (तस्मात् वै) इससे ही (सः) वह (परा अभवत्) हारा है” ॥४९॥
भावार्थ - विद्वान् लोग निश्चय कर देते हैं कि वेदवाणी का रोकनेवाला पुरुष अज्ञान बढ़ने से क्लेश में पड़ता है ॥४९॥
टिप्पणी -
४९−(देवाः) विद्वांसः (वशाम्) कमनीयां वेदवाणीम् (परि) परीत्य (अवदन्) अब्रुवन् (न) निषेधे (नः) अस्मभ्यम् (अदात्) दत्तवान् (इति) एवम् (हीडिताः) म० २८। क्रुद्धाः (एताभिः) (ऋग्भिः) स्तुत्याभिर्वेदवाणीभिः (भेदम्) भिदिर् विदारणे−अच्। भेदकम्। कुटिलम् (तस्मात्) कारणात् (वै) (एव) (सः) भेदकः (पराभवत्) पराजितोऽभवत् ॥