अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 7
यद॑स्याः॒ कस्मै॑ चि॒द्भोगा॑य॒ बाला॒न्कश्चि॑त्प्रकृ॒न्तति॑। ततः॑ किशो॒रा म्रि॑यन्ते व॒त्सांश्च॒ घातु॑को॒ वृकः॑ ॥
स्वर सहित पद पाठयत्। अ॒स्या॒: । कस्मै॑ । चि॒त् । भोगा॑य । बाला॑न् । क: । चि॒त् । प्र॒ऽकृ॒न्तति॑ । तत॑: । कि॒शो॒रा: । म्रि॒य॒न्ते॒ । व॒त्सान्। च॒ । घातु॑क: । वृक॑: ॥४.७॥
स्वर रहित मन्त्र
यदस्याः कस्मै चिद्भोगाय बालान्कश्चित्प्रकृन्तति। ततः किशोरा म्रियन्ते वत्सांश्च घातुको वृकः ॥
स्वर रहित पद पाठयत्। अस्या: । कस्मै । चित् । भोगाय । बालान् । क: । चित् । प्रऽकृन्तति । तत: । किशोरा: । म्रियन्ते । वत्सान्। च । घातुक: । वृक: ॥४.७॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 7
विषय - वेदवाणी के प्रकाश करने के श्रेष्ठ गुणों का उपदेश।
पदार्थ -
(यत्) यदि (कस्मैचित्) किसी ही (भोगाय) कुटिलता के लिये (अस्याः) इस [वेदवाणी] के (बालान्) बलों को (कश्चित्) कोई पुरुष (प्रकृन्तति) कतर लेता है। (ततः) उस [कुटिलता] से (किशोराः) किशोर [तरुण अवस्थावाले] (म्रियन्ते) मर जाते हैं, (च) और (वृकः) वह भेड़िया [समान हिंसक] (वत्सान् घातुकः) [बोलते हुए] बच्चों का हत्यारा [होता है] ॥७॥
भावार्थ - जो कुटिल कुचाली मनुष्य पवित्र वेदवाणी को चोरी, डकैती, व्यभिचार आदि कुनीति में लगाता है, वह अपने प्रिय सम्बन्धियों को भी मारकर नरक में पड़ता है ॥७॥
टिप्पणी -
७−(यत्) यदि (अस्याः) वेदवाण्याः (कस्मैचित्) अनिश्चिताय (भोगाय) भुजो कौटिल्ये−घञ्। कौटिल्याय (बालान्) बल प्राणने−घञ्। पराक्रमान् (कश्चित्) दुष्टः (प्रकृन्तति) प्रकर्षेण छिनत्ति (ततः) तस्मात् कारणात् (किशोराः) किशोरादयश्च। उ० १।६५। किम्+शॄ हिंसायाम्−ओरन्। तरुणावस्थाः पुरुषाः (म्रियन्ते) प्राणांस्त्यजन्ति (वत्सान्) वृतॄवदिवचिवसि०। उ० ३।६२। वद व्यक्तायां वाचि−स प्रत्ययः। वदनशीलान् बालकान् (च) (घातुकः) लषपतपदस्थाभूवृषहन०। पा० ३।२।१५४। हन हिंसागत्योः−उकञ्। नलोकाव्यय०। पा० २।३।६९। इति सकर्मकता। घ्नन्। हन्ता (वृकः) वृक इव हिंसकः ॥