अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 14
यथा॑ शेव॒धिर्निहि॑तो ब्राह्म॒णानां॒ तथा॑ व॒शा। तामे॒तद॒च्छाय॑न्ति॒ यस्मि॒न्कस्मिं॑श्च॒ जाय॑ते ॥
स्वर सहित पद पाठयथा॑ । शे॒व॒ऽधि: । निऽहि॑त: । ब्रा॒ह्म॒णाना॑म् । तथा॑ । व॒शा । ताम् । ए॒तत् । अ॒च्छ॒ऽआय॑न्ति । यस्मि॑न् । कस्मि॑न् । च॒ । जाय॑ते ॥४.१४॥
स्वर रहित मन्त्र
यथा शेवधिर्निहितो ब्राह्मणानां तथा वशा। तामेतदच्छायन्ति यस्मिन्कस्मिंश्च जायते ॥
स्वर रहित पद पाठयथा । शेवऽधि: । निऽहित: । ब्राह्मणानाम् । तथा । वशा । ताम् । एतत् । अच्छऽआयन्ति । यस्मिन् । कस्मिन् । च । जायते ॥४.१४॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 14
विषय - वेदवाणी के प्रकाश करने के श्रेष्ठ गुणों का उपदेश।
पदार्थ -
(यथा) जैसे (निहितः) नियम से रक्खा हुआ (शेवधिः) निधि [सुखदायक पदार्थ] होता है, (तथा) वैसे ही (वशा) वशा [कामनायोग्य वेदवाणी] (ब्राह्मणानाम्) ब्राह्मणों [वेदज्ञानियों] की है। (एतत्) इसीलिये (ताम्) उस [वेदवाणी] को (अच्छ−आयन्ति) अच्छे प्रकार प्राप्त करते हैं, (यस्मिन् कस्मिन् च) चाहे जिस किसी में (जायते) वह होवे ॥१४॥
भावार्थ - यह वेदवाणी ईश्वर ने वेदवेत्ताओं को संसार के सुख के लिये निधि के समान सौंपी है। मनुष्य उसको वेदद्वारा परमाणु से लेकर ईश्वरपर्यन्त खोजकर प्राप्त करें ॥१४॥
टिप्पणी -
१४−(यथा) येन प्रकारेण (शेवधिः) सुखप्रदः। निधिः−निरु० २।४। (निहितः) नियमेन स्थापितः (ब्राह्मणानाम्) ब्रह्मज्ञानिनाम् (तथा) (वशा) कमनीया वेदवाणी (ताम्) वेदवाणीम् (एतत्) एतस्मात्कारणात् (अच्छायन्ति) आभिमुख्येन प्राप्नुवन्ति (यस्मिन्) (कस्मिन्) (च) सम्भावनायाम् (जायते) वर्तते ॥