अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 41
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - साम्नी बृहती
सूक्तम् - अध्यात्म सूक्त
स स्त॑नयति॒ स वि द्यो॑तते॒ स उ॒ अश्मा॑नमस्यति ॥
स्वर सहित पद पाठस: । स्त॒न॒य॒ति॒ । स: । वि । द्यो॒त॒ते॒ । स: । ऊं॒ इति॑ । अश्मा॑नम् । अ॒स्य॒ति॒ ॥७.१३॥
स्वर रहित मन्त्र
स स्तनयति स वि द्योतते स उ अश्मानमस्यति ॥
स्वर रहित पद पाठस: । स्तनयति । स: । वि । द्योतते । स: । ऊं इति । अश्मानम् । अस्यति ॥७.१३॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 41
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४१, ४२−(सः) परमेश्वरः (स्तनयति) मेघ इव गर्जयति (सः) (विविधम्) (द्योतते) प्रकाशते (सः) (उ) एव (अश्मानम्) दण्डरूपं प्रस्तरम् (अस्यति) क्षिपति (पापाय) दुष्टाय (वा) अवधारणे (भद्राय) श्रेष्ठाय (वा) (पुरुषाय) मनुष्याय (असुराय) सुराणां विदुषां विरोधिने (वा) ॥
इस भाष्य को एडिट करें