अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 29
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - आसुरी गायत्री
सूक्तम् - अध्यात्म सूक्त
स वा अह्नो॑ऽजायत॒ तस्मा॒दह॑रजायत ॥
स्वर सहित पद पाठस: । वै । अह्न॑: । अ॒जा॒य॒त॒ । तस्मा॑त् । अह॑: । अ॒जा॒य॒त॒ ॥७.१॥
स्वर रहित मन्त्र
स वा अह्नोऽजायत तस्मादहरजायत ॥
स्वर रहित पद पाठस: । वै । अह्न: । अजायत । तस्मात् । अह: । अजायत ॥७.१॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 29
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २९−(सः) कारणरूपः परमेश्वरः (वै) अवश्यम् (अह्नः) कार्यरूपाद् दिनात् (अजायत) प्रादुरभवत् (तस्मात्) कारणरूपात् (अहः) दिनम् (अजायत) उदपद्यत ॥
इस भाष्य को एडिट करें