अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 42
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
पा॒पाय॑ वा भ॒द्राय॑ वा॒ पुरु॑षा॒यासु॑राय वा ॥
स्वर सहित पद पाठपा॒पाय॑ । वा॒ । भ॒द्राय॑ । वा॒ । पुरु॑षाय । असु॑राय । वा॒ ॥७.१४॥
स्वर रहित मन्त्र
पापाय वा भद्राय वा पुरुषायासुराय वा ॥
स्वर रहित पद पाठपापाय । वा । भद्राय । वा । पुरुषाय । असुराय । वा ॥७.१४॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 42
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४१, ४२−(सः) परमेश्वरः (स्तनयति) मेघ इव गर्जयति (सः) (विविधम्) (द्योतते) प्रकाशते (सः) (उ) एव (अश्मानम्) दण्डरूपं प्रस्तरम् (अस्यति) क्षिपति (पापाय) दुष्टाय (वा) अवधारणे (भद्राय) श्रेष्ठाय (वा) (पुरुषाय) मनुष्याय (असुराय) सुराणां विदुषां विरोधिने (वा) ॥
इस भाष्य को एडिट करें