अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 25
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - एकपदासुरी गायत्री
सूक्तम् - अध्यात्म सूक्त
स ए॒व मृ॒त्युः सो॒मृतं॒ सो॒भ्वं स रक्षः॑ ॥
स्वर सहित पद पाठस: । ए॒व । मृ॒त्यु: । स: । अ॒मृत॑म् । स: । अ॒भ्व᳡म् । स: । रक्ष॑: ॥६.४॥
स्वर रहित मन्त्र
स एव मृत्युः सोमृतं सोभ्वं स रक्षः ॥
स्वर रहित पद पाठस: । एव । मृत्यु: । स: । अमृतम् । स: । अभ्वम् । स: । रक्ष: ॥६.४॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 25
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २५−(सः) परमेश्वरः (एव) (मृत्युः) मारकः। मरणस्य हेतुः (सः) (अमृतम्) अमरणस्य कारणम् (अभ्वम्) अ० ४।१७।५। अशूप्रुषि०। उ० १।१५१। अभि शब्दे-क्वन्, छान्दसो नलोपः। अभ्वो महन्नाम-निघ० ३।३। महत् (सः) (रक्षः) सर्वधातुभ्योऽसुन्। उ० ४।१८९। रक्ष पालने-असुन्। रक्षकं ब्रह्म ॥
इस भाष्य को एडिट करें