अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
स धा॒ता स वि॑ध॒र्ता स वा॒युर्नभ॒ उच्छ्रि॑तम् ॥
स्वर सहित पद पाठस: । धा॒ता । स: । वि॒ऽध॒र्ता । स: । वा॒यु: । नभ॑: । उत्ऽश्रि॑तम् । ॥४.३॥
स्वर रहित मन्त्र
स धाता स विधर्ता स वायुर्नभ उच्छ्रितम् ॥
स्वर रहित पद पाठस: । धाता । स: । विऽधर्ता । स: । वायु: । नभ: । उत्ऽश्रितम् । ॥४.३॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(सः) परमेश्वरः (धाता) सर्वपोषकः (सः) (विधर्ता) विविधं धारकः (सः) (वायुः) वा गतिगन्धनयोः-उण् युक् च। व्यापकः। बलिष्ठः (नभः) नहेर्दिवि भश्च। उ० ४।२११। णह बन्धने-असुन्, हस्य भः, यद्वा, नयतेः-असुन्, गुणे “नयः” इति स्थिते बाहुलकाद् यकारस्य भकारः। नभ आदित्यो भवति, नेता रसानां, नेता भासां, ज्योतिषां प्रणयः, अपि वा भन एव स्याद् विपरीतः, न न भातीति वा-निरु० २।१४। प्रबन्धकं नायकं वा ब्रह्म (उच्छ्रितम्) ऊर्ध्वं श्रितं स्थितम् ॥
इस भाष्य को एडिट करें