अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 50
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
अम्भो॒ अमो॒ महः॒ सह॒ इति॒ त्वोपा॑स्महे व॒यम् ॥
स्वर सहित पद पाठअम्भ॑: । अम॑: । मह॑: । सह॑: । इति॑ । त्वा॒ । उप॑ । आ॒स्म॒हे॒ । व॒यम् ॥८.५॥
स्वर रहित मन्त्र
अम्भो अमो महः सह इति त्वोपास्महे वयम् ॥
स्वर रहित पद पाठअम्भ: । अम: । मह: । सह: । इति । त्वा । उप । आस्महे । वयम् ॥८.५॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 50
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५०−(अम्भः) म० १४। आप्लृ व्याप्तौ-असुन्। व्यापकं ब्रह्म (अमः) अम गतौ-असुन्। ज्ञानस्वरूपम् (महः) पूजनीयम् (सहः) सहनशीलम्। अन्यत् पूर्ववत्-म० ४७ ॥
इस भाष्य को एडिट करें