अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 47
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - यवमध्या गायत्री
सूक्तम् - अध्यात्म सूक्त
भूया॒नरा॑त्याः॒ शच्याः॒ पति॒स्त्वमि॑न्द्रासि वि॒भूः प्र॒भूरिति॒ त्वोपा॑स्महे व॒यम् ॥
स्वर सहित पद पाठभूया॑न् । अरा॑त्या: । शच्या॑: । पति॑: । त्वम् । इ॒न्द्र॒ । अ॒सि॒ । वि॒ऽभू: । प्र॒ऽभू: । इति॑ । त्वा॒ । उप॑ । आ॒स्म॒हे॒ । व॒यम् ॥८.२॥
स्वर रहित मन्त्र
भूयानरात्याः शच्याः पतिस्त्वमिन्द्रासि विभूः प्रभूरिति त्वोपास्महे वयम् ॥
स्वर रहित पद पाठभूयान् । अरात्या: । शच्या: । पति: । त्वम् । इन्द्र । असि । विऽभू: । प्रऽभू: । इति । त्वा । उप । आस्महे । वयम् ॥८.२॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 47
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४७−(भूयान्) अधिकतरो बली (अरात्याः) शत्रुसकाशात्, (शच्याः) शची वाङ्नाम-निघ० १।११। कर्मनाम−२।१। प्रजानाम−३।९। वाण्याः कर्मणो बुद्धेर्वा (पतिः) पालकः (त्वम्) (इन्द्रः) परमेश्वर्यवन् (असि) (विभूः) व्यापकः (प्रभूः) समर्थः (इति) अनेन प्रकारेण (त्वा) त्वाम् (उपास्महे) सेवामहे (वयम्) उपासकाः ॥
इस भाष्य को एडिट करें